पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

439 मिथ्यात्वेनात्यन्ताभावप्रतियोगितया साध्यस्यैव सत्त्वात् । न च अत्यन्ताभावस्यात्यन्ताभावे तत्प्रतियोगित्वलक्षणमिथ्यात्वासि- द्विरिति वाच्यम्; अभावेऽभावप्रतियोगित्वस्य भावगताभाव प्रतियोगित्वाविरोधित्वात् । प्रागभावस्यात्यन्ताभावप्रतियोगि त्वेऽपि तत्प्रतियोगित्वस्य घटादौ सर्वसिद्धत्वात् । उपपादितं चैतत् मिथ्यात्वमिथ्यात्वे । अत्र चाव्याप्यवृत्तित्वानाधिकरण - शब्देन एकदेशावच्छेदेनाविद्यमानत्वं पक्षविशेषणं विवक्षितम् । एतेन स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वोक्तौ बाधः, अव- गववृत्तित्वानधिकरणत्वोक्तौ घटादीनामपक्षत्वापत्तिरिति दूषण द्वयमपास्तम् । अनात्मत्वहेतुस्तु जडत्वहेतुव्याख्यानेनैव व्या- ख्यातः । अतएव नित्यद्रव्यान्यदव्याप्यवृत्तित्वानधिकरणमुक्त- चारित्वादात्मत्वप्रतियोगित्वं विशेषगनिति द्रष्टव्यम् । मिथ्यात्वेन । ज्ञाननिवर्त्यत्वेन । अत्यन्ताभावप्रतियोगितया | स्वाधिकरणब्रह्म निष्ठात्यन्ताभावप्रतियोगितया । नन्वेवं विश्वस्य सत्यतापत्तिः, विरुद्ध- - योरेकनिषेधे अपरस्य यति शङ्कते न चेति । अत्यन्ता- भाव इति । बोध्ये इति शेषः । मिथ्यात्वासिद्धिरिति । निषेधस्या- त्यन्ताभावस्य प्रतियोगिनि मिथ्यात्वासिद्धिरित्यर्थ:: । भावगतेति । प्रतियोगिगतेत्यर्थः । मिथ्यात्व इति । तत्र हि विरुद्धयोरेक मिथ्या त्वेऽपरसत्यत्वं यत्र मिथ्यात्वावच्छेदकमुभयवृत्ति न भवेदित्यादिग्रन्थे मिथ्यात्वस्य मिथ्यात्वप्रतिपादनपर इत्यर्थः । एकदेशावच्छेदेनेति । दैशिकसम्बन्धावच्छिन्ना किञ्चिदवच्छिन्ना वृत्तिर्यस्य तदन्यत्वं विवक्षि- तमित्यर्थः । घटादेः कपालाद्यवच्छेदेन कालवृत्तित्वादाद्यमवच्छिन्ना- न्तम् । बाघ इति । उक्त प्रतियोगित्वाभाववति उक्तप्रतियोगित्व- साधने बाध इत्यर्थः । अपास्तमिति । न च कपाले अग्रे घटो न तु मूले, तन्तुषु दशान्यभागे पटो न तु दशास्विति प्रतीतेः घटादे परिच्छेदः] विशेषतोऽनुमानानि - -