पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतासद्धिव्याख्यायां गुरुचन्द्रिकार्या [ प्रथमः तावच्छेदकम्, ब्रह्मवृत्तित्वात्, असद्वैलक्षण्यवत् । परमार्थसत्प्रति- योगिको भेदो न परमार्थसन्निष्ठः, परमार्थसत्प्रतियोगिकत्वात्, 430 , हेत्वन्तरेण पूर्वसाघितसाधनेऽपि न क्षतिरिति तदेव वा साध्यम् । भेद इति । स्वप्रतियोग्यवृत्तिरित्यादिः । तेन परमार्थतदन्योभयभेदादौ ' न बाधः । न च तत्रापि मिथ्याभूतत्वात् परमार्थनिष्ठत्वं नास्तीति व्यर्थमुक्तविशेषणमिति वाच्यम्; तथापि ब्रह्माभन्ने परमार्थत्वनिषेधस्य प्रकृतानुमानफलस्यानुरोधेन तदावश्यकत्वादन्यथा, परमार्थनिष्ठत्वमात्र- मिथ्यात्वेनैव ब्रह्मवृत्तिभेदे साध्यस्योपपाद्यतया प्रपञ्चवृत्तिभेदेऽपि तेनैव उक्तसाध्योपपत्त्या उक्तफल सिद्धेरुक्तविशेषणे दत्ते तु विनिगमकाभावा- द्विशेषणीभूतस्य परमार्थत्वस्य प्रपञ्चेऽभावमादायापि साध्यं पर्यवस्यतीति- ध्येयम् । प्रतियोगिकत्वादिति । न च परमते संयोगादौ घटत्वा- भावादौ च व्यभिचार इति वाच्यम्; तस्य पक्षसमत्वात्परमार्थसन्निष्ठ- त्वेन हेतुना तत्र परमार्थप्रतियोगि कत्वाभावानुमानस्य वक्ष्यमाणतया हेत्वभावाच्च । अथैवं सप्रतियोगिकत्वस्यैव साधकत्वसम्भवेन परमार्थ- सदिति व्यर्थमिति चेन्न; तदभावे हि संयोगादेरभावस्य प्रतियोगितासु प्रतियोगितात्वरूपानुगतधर्माभावेन संयोगादिप्रतियोगिताया निवेशे संयोगादेरेव पक्षीकार्यतया तत्र साध्यसिद्धेः परमार्थ निष्ठत्वामिथ्यात्वे- नापि सम्भवात् ब्रह्मान्यम्यापरमार्थत्वालाभ स्यात् । सति च तस्मिन् विशेषणे सप्रतियोगिकत्वमभावनिष्ठमेव लभ्यते । मन्मते ह्यभाव एव परमार्थसत्प्रतियोगिकः, संयोगादेः ब्रह्मण्यनङ्गीकारात्तादात्म्यमपि तादृशं यद्यपि ; तथाप्यभावीयप्रतियोगिताविशेषो निरूपकतासम्बन्धेन हेतुस्तद्विशेषेणाल्लभ्यत इति न दोषः । यद्यपि परमार्थत्वावच्छिन्नप्रति- योगितायास्तत्वेन हेतुत्वे सिद्धसाधनम् ब्रह्मत्वावच्छिन्न प्रतियोगिताया- 1 तेन्योभयभेदाभेदौ. 2 न परमार्थ.