सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

429 परिच्छेदः , त्कपाल समानकालीनैतट प्रतियोगिकाभाववृत्तित्वात्, प्रमेयत्व- वत् । एतत्कपालमेतद्धटात्यन्ताभावाधिकरणम्, आधारत्वात्, पटादिवत् । ब्रह्मत्वं न परमार्थसन्निष्ठान्योन्याभावप्रतियोगि गिकाभावत्वादौ व्यभिचारात् एतद्धटप्रतियोगिकेति । तद्धटसंयो- गत्वादौ व्यभिचारादभावेति । वस्तुतस्तु – एतद्धटेति । एतत्कपाल- नाशनाश्यघटेत्यर्थः एवंच तत्सामानाधिकरण्ये अनवच्छिन्नत्वं विशेष- णम् तद्धटप्रागभावकालावच्छिन्नं तत्समानाधिकरण्यमादाय सिद्ध- साधनवारणाय । तद्घटध्वंसत्वे व्यभिचारात् कालीनान्तम् । येन तटसमवायिनि तद्घटात्यन्ताभावो न स्वीक्रियते तं प्रत्यनवच्छिन्नत्वं न देयम् । ननु स्वप्रतियोगिसमानाधिकरणवृत्तित्व साधने ऽपीष्टसिद्धौ किमिति जनकाभावनिवेश इति चेत् । अयं भावः - तद्वीज घटाधु- त्पत्ते: पूर्व तत्समवायिनि प्रतीयमानतदभावस्य परेणापि स्वीकारात् तस्य चात्यन्ताभावान्यत्वे तद्देशकालावच्छिन्नवृत्तिकत्वे च मानाभावात् गौरवाच्च । प्रतियोगिकाले तत्सत्त्वेपि औपनिषददर्शनापरिशीलनं पुरुषं प्रत्यावृतत्वस्वीकारादेवाप्रकाशोपपत्तेः । प्रतियोगिजनकत्वेन पराङ्गी- कृतोऽभावोऽत्यन्ताभाव एव । अन्यथा तस्य विनाशित्वे गौरवात् । न चैवं प्रतियोगिमति तत्कालावच्छेदेन तदत्यन्ताभाव इति धीः गवादौ गोत्वाद्यभाव इति धीश्च प्रमात्वेन व्यवह्वियेतेति वाच्यम्; अत्यन्ताभावे हि अवच्छिन्नत्वानङ्गीकारादेव आद्या, आवृतत्वाङ्गकारादेव द्वितीया धीर्न प्रमात्वेन व्यवद्दियते । त्वयापि गवादौ तन्नाशादिकाले गोत्वाद्य- भावोऽङ्गीक्रियत इत्युक्तम् । विवृतमधिकमेतत्सूत्रमुक्तावलौ नः । अधिकरणमिति । अनवच्छिन्नाधिकरणतावदित्यर्थः । तेन तद्भूटान- वच्छेदकावच्छिन्नतदत्यन्ताभाववत्त्वमादाय न सिद्धसाधनम् । न पर- मार्थसदिति । मिथ्यातुच्छविलक्षणवृत्तिभेदप्रतियोगितानवच्छेदकत्वं साध्यम् । तेनाबाध्या निष्ठभेदघटितात् सत्त्वव्यापकमिति पूर्वसाध्याद्भेदः । विशेषतोऽनुमानानि