पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

428 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां प्रतियोग्यशेषाधिकरणवृत्तिमात्रवृत्ति, प्रतियोग्यवच्छिन्नवृत्तिमात्र वृत्तिवा, नित्याभावमात्रवृत्तित्वात्, 'अन्योन्याभावत्ववत् | घटा- त्यन्ताभाववत्वं प्रतियोगिजन काभावसमानाधिकरणवृत्ति, एत- [ प्रथमः आद्यसाध्यं स्वनिष्ठप्रतियोगितानिरूपकत्वस्वावच्छेदका वच्छिन्नत्वोभय- सम्बन्धेन विषयवत्व पर्यवसितं बोध्यम् । तेन किञ्चित्प्रतियोगिनिवेशे सिद्धसाधनादि, स्वप्रतियोगिनिवेशे पक्षदृष्टान्तसाधारणस्य स्वत्वस्याभा. वेन तदन्यतरनिवेशे साध्यवैकल्य बाधावित्यादिकं न दोषः । प्रतियोग्य- शेषेति । अशेषप्रतियोगीत्यर्थः । पूर्वक्षणवृत्तित्वविशिष्टस्य स्वस्या- भावरूपो यः प्रतियोगी तदधिकरणवृत्तिस्सर्वोप्यत्यन्ताभावस्तन्मात्र- वृत्तित्वं पक्षे सिद्धम् । अतोऽशेषेति । तथाच स्वप्रतियोग्यधिकरणता- व्यापकाधिकरणतानिरूपकं यद्यत्तद्भेदकूटवदवृत्तित्वं माध्यम् | स्वप्रति योगिकत्वं स्वासामानाधिकरण्यं चेत्युभयसम्बन्धेन विषयविशिष्टं यत्तद- वृत्तित्वं स्वावच्छेदकविशिष्टवदवृत्तित्वं स्वनिरूपकं चेत्युभयसम्बन्धेन प्रतियोगिताविशिष्टं यत्तदवृत्तित्वं वा पर्यवसितम् । तादृशविषयविशिष्टं च सर्वावयवनाशजन्यो घटादिनाशः । प्रतियोग्यवच्छिन्नेत्यादि । स्वप्रतियोग्यवच्छेदकावच्छिन्नभिन्नावृत्ति अवच्छिन्नवृत्तिकावृत्तीति वा र्थः । दृष्टान्त उक्तरीत्या बोध्यः, शेषं पूर्ववत् । प्रतियोगिजनकेति । स्वप्रतियोगिजनकेत्यर्थः । स्वसमानाधिकरणपदार्थोऽत्यन्ताभावस्तत्प्र- तियोगिजनकाभावश्च तद्धटप्रागभावः । तत्सामानाधिकरण्यं चानव- च्छिन्नं निवेश्यम् । तेन तादृशाभावकालेन तद्घटध्वंसकालेन वा अवच्छिन्नं तत्सामानाधिकरण्यं तद्धटात्यन्ताभावनिष्ठमादाय न सिद्ध- साधनादि । तत्कपालनाशजन्यतद्धटध्वंसत्वे व्यभिचारात् कालीनान्तम् । कपालनाशनाश्यघट ' व्यक्तिनिवेशे तु तन्नोपादेयम् । अनादिप्रतियो- 2 1 विषयकस्वं. 2 घटवृत्ति. े