पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] विशेषतोऽनुमानानि 2 431 परमार्थसत्त्वावच्छिन्नप्रतियोगिकाभाववत् । भेदत्वावच्छिन्नं, सद्विलक्षणप्रतियोग्यधिकरणान्यतरवत् अभावत्वाच्छुक्तिरूप्य- , , प्रतियोगिकाभाववत् । परमार्थसन्निष्ठो भेदो न परमार्थसत्प्रतियो- गिकः, परमार्थसदधिकरणत्वात् शुक्ति रूप्यप्रतियोगिकभेदवत् । मिथ्यात्वं ब्रह्मतुच्छोभयातिरिक्तत्वव्यापकम्, सकलमिथ्यावृत्ति- स्तत्त्वेन हेतुत्वे तु साधनवैकल्यम्; तथापि तयोरन्यतरत्वेन तद्बोध्यम् | यदि तु प्रतियोगितापदार्थमात्रेऽनुगतं प्रतियोगितात्वं स्वीक्रियते, तदा सप्रतियोगिकत्वस्यैव हेतुत्वे तात्पर्यम् । परमार्थसत्त्वावच्छिन्नप्रति- योगिकाभाववदिति । तादृशाभावश्च भेद एव, परमते परमार्थ- सत्त्वस्य मेयत्वादिवदत्यन्ताभावप्रतियोगितानवच्छेदकत्वात् अलीकेऽपि - वृत्तिविषयत्वरूपस्य परमार्थस्य सत्त्वात्, मन्मतेऽपि मिथ्यात्वग्राहकमानेन वियत्वादे'रत्यन्ताभावप्रतियोगितावच्छेदकत्वासिद्धावपि मानाभावेन तस्य तदसिद्धेर्गुरुत्वाच तत्तद्धीव्यक्तयपेक्षयेति ध्येयम् । सद्विलक्षणेति । सद्विलक्षणं यत् स्वप्रतियोगिस्वाधिकरणयोरन्यतरत् तत्सम्बन्धित्वं साध्यम् । सद्विलक्षण वृत्तिप्रतियोगितानिरूपकत्वं सद्विलक्षणवृत्तयधिकरणतानि- रूपकं चेत्येतयोरन्यतरत्वं पर्यवसितम् तेन स्वपदार्थाननुगमेऽपि न स्वरूपासिद्धयादि । न परमार्थसत्प्रतियोगिक इति । संयोगादेः पूर्ववत्पक्षसमत्वान्न व्यभिचारः । परमार्थसदधिकरणकत्वादिति । साधिकरणकत्वस्य हेतुत्वे तात्पर्यम् । यदि तु सर्वास्वधिकरणतासु अधिकरणतात्वन्नास्ति, तदा उक्तरीत्या अन्यतमत्वेनैव निरूपकतासम्ब- न्धेन हेतुता बोध्या । तच्च तावदधिकरणतामात्रविषयकतद्धीविषयत्वं ताव- दधिकरणता भिन्नभिन्नत्वेन हेतुत्वे तु दृष्टान्तीयाधिकरणताव्यक्तीतरांशत्रै- यर्थ्यम् । सकलमिथ्यावृत्तित्वादिति । स्वविशिष्टव्याप्यमिथ्यात्वक- त्वात् स्वावच्छिन्नाभाववद्वत्तिमथ्यात्वकं यद्यत्तद्भेदकूटवत्त्वादिति यावत् । 1 विषयत्वाभावादेः. 2 तद्विलक्षण.