पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

425 , रणान्योन्याभावप्रतियोग्यवृत्ति; सदितरावृत्तित्वात् ब्रह्मत्व- वत् । ब्रह्मत्वमेकत्वं वा सत्त्वव्यापकम्, सत्त्वसमानाधिकरण- त्वात् असद्वैलक्षण्यवत् । व्याप्यवृत्तिघटादिः जन्याभावाति- रिक्तसमानाधिकरणाभावमात्रप्रतियोगी, अभावप्रतियोगित्वात्, परिच्छेद:] विशेषतोऽनुमानानि चेत्युभयसम्बन्धेन उक्तभेदविशिष्टं यत्तदन्यत्वं साध्यम् । तेन स्वपदा- र्थस्य पक्षदृष्टान्तसाधारणस्यैकस्याभावेऽपि न क्षतिः । सदितरेति । पर- मार्थसदन्येत्यर्थः । सत्त्वव्यापकमिति | अबाध्यनिष्ठभेदप्रतियोगिता- नवच्छेदकमित्यर्थः । एकत्वं । यत्किश्चिदेकत्वम् न सत्त्वव्यापकम् नानावस्तुषु सत्त्वस्वीकारात् । यद्वा पञ्चमप्रकाराविद्यानिवृत्तिपक्षे तस्या ब्रह्मान्यत्वादेकत्वमविनाशित्वादिरूपं पश्चीकृतमिति ध्येयम् । सयोगादि- वदव्याष्यवृत्तित्वेनार्थान्तरं स्यादती – व्याप्यवृत्तिरिति । दैशिकस- म्बन्धावच्छिन्ना वृत्तिः किञ्चिदवच्छिन्ना यस्य तदन्य इत्यर्थ । घटगोत्वादेः कालिकसम्बन्धावच्छिन्नवृत्तेः कपालाद्यवच्छिन्नत्वा दवच्छिन्नान्तम् | सम- वायेन घटादरव्याप्यवृत्तित्त्वे त्वाह -- आदिगिति । गोत्वादीत्यर्थः । घटादौ तु अवच्छिन्नवृत्तिकान्यसमानाधिकरणात्यन्ताभावप्रतियोगित्वमेव शुक्तिरूप्यादिदृष्टान्तेन साधनीयमिति भावः । भेदप्रतियोगित्वमादाय सिद्धसाधनं स्यादतो । मात्रेति । अजन्यसमानाधिकरणान्यस्याप्रति योगीति पर्यवसितं साध्यम् । कपालादिनाशनाश्यघटादौ समानाधिकर- णान्यध्वंसप्रतियोगित्वेन बाधात् – अजन्येति । अन्यान्तविशेषणम् । अभावप्रतियोगित्वादिति । न चाभावेति व्यर्थमिति वाच्यम्; अभा- वसंयोगादिप्रतियोगितासु सम्बन्धावच्छिन्नत्वादितदभावाभ्यां विलक्षणासु हेतुतालाभाय प्रातियोगितात्वम्यैकस्याभावेनाभावीयप्रतियोगितागतरूपेण तदुपादानात् । अन्यथा सयोगादिप्रतियोगितारूपेण हेतुत्वे गुणादौ भागासिद्धेः । तासु तस्यैकस्य स्वीकारे तु प्रतियोगितासम्बन्धेन