पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

424 अद्वैतसिद्धिव्यख्यायां गुरुचन्द्रिकायां [प्रथमः , वृत्तित्वात् शुक्तिरूप्यत्ववत् परमार्थसद्भेदवच्च । विमतं मिथ्या, ब्रह्मान्यत्वात् शुक्तिरूप्यवत् । परमार्थसत्वं स्वसमानाधिक , नास्तीति बाघसम्भवाच्च, यथोक्तपक्षे साध्यस्य परेषामसिद्धत्वात् । शुक्ति- रूप्यत्ववदिति । शुक्तयवच्छिन्न चैतन्यवृत्तेरपि शुक्तिरूप्यत्वस्य शुद्ध- ब्रह्मावृत्तित्वामेति भावः । यद्युपहितवृत्तेश्शुद्धवृत्तित्वनियमः, तथापि न क्षतिरित्याशयेनाह – परमार्थसद्भेदवदिति । न च परमार्थसद्धे- दोऽपि ब्रह्मवृत्तिः, अन्यथा परमार्थसत्त्वस्य ब्रह्मस्वरूपस्य स्वधर्मत्वानुप- पत्तेरिति साधनवैकल्यमिति वाच्यम्; तत्र ब्रह्मवृत्तित्वस्य प्रातीतिकत्वेन तदभावस्य पररीत्यापि सम्भवात् दृष्टान्तस्य परमार्थसत्त्वावच्छिन्न- प्रतियोगिताकभेदस्य ब्रह्मण्यभावाच्च तद्व्यक्तित्वावच्छिन्न प्रतियोगि- ताकभेदादिनैव धर्मतानिर्वाहात् व्यावहारिकस्य परमार्थावृत्तेर्वा भेदस्य दृष्टान्तत्वे निर्दोषत्वाच्च । अतएव भेदस्य विभागवत् प्रतियोगिवृत्तित्वेऽपि न क्षतिः । वस्तुतस्तु परमार्थसत्प्रतियोगिकत्वविशिष्टस्य दृष्टान्तत्वाचा- दृशस्य ब्रह्माणे सत्त्वे मानाभावान्न साधनवैकल्यम् । अतएव च न साध्यवैकल्यम् । अतएव च शुक्तिरूप्याद्युपहितवृत्तित्वेऽपि नोक्तभेदस्य शुद्धब्रह्मवृत्तित्वशङ्का, तदतिरिक्तस्थल एव तथा नियमस्वीकारात् । अतएव सहाकालान्यत्वविशिष्टघटादेः महाकालावृत्तित्वं पराभ्युपगतम् । मिथ्या सद्विलक्षणम् । तेनासद्व्यावृत्तमिथ्यात्वस्यासम्भवेऽपि ' नासति व्यभिचारः । ब्रह्मान्यत्वादिति । उक्तरीत्या ब्रह्मणि व्यभिचारादिकं परिहार्यम् । स्वसमानाधिकरणान्योन्येत्यादि । अन्योन्याभावो व्यावहारिकः प्रतियोग्यवृत्तिर्वा ग्राह्यः, तेन ब्रह्मनिष्ठं ब्रह्मभेदं प्रातीतिक- मादाय न दोषः । स्वसमानाधिकरणतादृशभेद प्रतियोगिवृत्ति यद्यत्ताव- दन्यत्वकूटं साध्यम् । अथवा स्वप्रतियोगिवृत्तित्वं स्वसामानाधिकरण्यं 1 त्वस्यासत्यभावेपि ( त्वस्याभात्रेपि पा.) ♦ -