पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष तोऽनुमानानि 423 , , ब्रह्मान्यासत्वानधिकरणत्वं पारमार्थिकसत्वाधिकरणावृत्ति, ब्रह्मा- त्त्वाभाव इत्यर्थः । पारमार्थिकसत्त्वेति । सामान्यानुमानोक्तरीत्या धीविषयत्वादिरूपं पारमार्थिकसत्त्वं बोध्यम् । अतो न सिद्धसाधनादि- पूर्वोक्तदोषः । व्यावहारिकं पारमार्थिकसत्त्वाधिकरणवृत्तित्वमत्र निवे- श्यम् । एतेन — “ ब्रह्मस्वरूपस्य तस्या धिकरणाप्रसिद्धिः कल्पितस्य तदधिकरणत्वस्य तत्रैव प्रसिद्धावपि शुक्तिरूप्यत्वे साध्याप्रसिद्धिः; तद्वद्वृत्तित्वस्य मिथ्यात्वन्तु न सिद्धम् येन तत्सत्वेऽपि तदभावसत्वान्ना- प्रसिद्धि पारमार्थिकसद्वृत्तित्वेऽपि किञ्चिदवच्छेदेन तदभावसत्त्वमादाय सिद्धसाधनापत्त्या पारमार्थिकसद्वृत्ति यद्यत्तदन्यत्वस्यैव साध्यीकार्यत्वात्, तस्य च शुक्तिरूप्यत्वे ब्रह्मनिष्ठे न प्रसिद्धिः " इत्यादि परास्तम् । अवच्छिन्नब्रह्मनिष्ठेऽपि शुक्तिरूप्यत्वे शुद्धब्रह्मावृत्तित्वानपायाच्च । अवृ- तित्वमात्रं न व्याप्तिग्राहकं दृष्टान्तावृत्तित्वात् । अतो ब्रह्मावृत्तित्वं हेतूकृतम् । न च ब्रह्मण्यवृत्तित्वसत्त्वात्तत्रैव तस्या व्याप्तिग्राहकत्वं शंक्यम् । आनन्दत्वादिधर्मरूपत्वेन ब्रह्मणोऽपि स्ववृत्तित्वात्तस्य प्राती तिकत्वात्तदभावोऽपि तस्येति चेन्न; तथापि ब्रह्मणि दृष्टन्ते साध्यवैक- ल्यापातात्, सद्रूपत्वेन ब्रह्मणः प्रपञ्चवृत्तित्वात् परमते पारमार्थिक- सद्वृत्तित्वात् । अत एव साधनवैकल्यमपि प्रपञ्चवृत्तित्वस्य ब्रह्मनिष्ठ- स्याद्यापि मिथ्यात्वासिद्ध्या ब्रह्मण्यवृत्तित्वासिद्धेः । यद्यपि केवलस्या- सत्त्वाभावस्य पारमार्थिकसद्वृत्तित्वम्, तथाप्युक्तपक्षतावच्छेदकविशिष्ट- रूपेण तदभावरूपसाध्यवत्त्वमक्षतम् । अतएव ब्रह्मान्येति सार्थकम् । प्राती- तिकवृत्तित्वविशिष्टम्सन्नसत्त्वाभावः पारमार्थिकावृत्तिरिति परेषां सिद्धम् । अतोऽबाध्यान्तम् । न चैवमपि ब्रह्मज्ञानबाध्यप्रातीतिक वृत्तित्वविशि- ष्टस्य पारमार्थिकावृत्तित्वेन परेषां सिद्ध इति वाच्यम्; परैः पातीतिक- मात्रस्य ब्रह्मज्ञानान्यबाध्यत्वाङ्गीकारात्, सर्व प्रातीतिकं प्रतिपन्नोपाधौ 1 व्यवहारिकपारमार्थिकरणे वृत्तीति पा. 2 'ब्रह्मस्वरूप सत्त्वस्या. . परिच्छेदः] , ,