पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः घटात्यन्ताभावसच्चात् साध्याभाववति हेतोर्वृत्तेरित्यलमति- विस्तरण || इत्यद्वैतसिद्धौ विश्वसत्वानुमानभङ्गः. अथविश्वमिथ्यात्वे विशेषतोऽनुमानानि - मिथ्यात्वे च विशेषतोऽनुमानानि – ब्रह्मज्ञानेतरावाध्य नवैकल्यं, तत्राह साध्याभाववतीति । समवायावच्छिन्न प्रतियोगिता- कघटात्यन्ताभावस्य नित्यत्वात् तद्घटसमानकालीनत्वेन घटात्यन्ताभावत्व मुक्तसाध्याभाववदिति भावः । ननु तद्धटसमवाय्यवच्छिन्नं यत्तद्घट- कालवृत्तित्वं तद्वृत्तित्वाभावस्साध्यः, तथाच समवायेन तद्धटाभावो नोक्त- वृत्तित्ववान्, तद्धटसमवाय्यन्यावच्छेदेनैव तस्य तद्वत्त्वादिति न व्यभिचारः, तत्राह – अलमिति । मन्मते मिथ्यात्वघटकात्यन्ताभावस्य प्रतियोग्यविरुद्धत्वेन देशकालावच्छिन्नवृत्तिकत्वाभावेन सिद्धसाधनम् । प्रातिभासिकतद्घटात्यन्ताभावमादाय व्यभिचारः । तदन्यत्वेन समानका- लीनविशेषणेऽपि बाघव्यभिचारौ, पूर्वोत्तरकालीनात्यन्ताभावयोरेव प्राग भावध्वंसरूपतया स्वीकारसम्भवात् । एकया अत्यन्ताभावव्यक्तथैव ध्वंसादिबुद्धयुपपत्ते स्संसर्गाभावव्यक्तयन्तरकल्पनात् तद्धटात्यन्ताभावे तद्घटसमानकालीनत्वावश्यकत्वात् उक्तावच्छिन्नत्वानिवेशे बाधाद्यावश्य- कत्वात्, तन्निवेशे सिद्धसाधनमिति भावः ॥ तर्कैस्सारस्वतै रनैश्चन्द्रिकाचन्द्रभूषणैः । विश्वसत्वानुमानानां भञ्जनं ध्वान्तभञ्जनन् || इति विश्वसत्यत्वानुमानभङ्गः, 422 , ब्रह्मज्ञानेत्यादि । ब्रह्मज्ञानान्याबाध्यं यद्धमान्यत्तद्वृत्तिरस- 1 ब्रह्मज्ञानेतैरबाध्यं.