पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकाया [ प्रथमः अभिधेयत्ववत् । अभिधेयत्वं हि परमते केवलान्वयि - त्वादन्योन्याभावमात्र प्रतियोगी । स समाना 2 । धिकरण एव । अस्मन्मते तु मिथ्यैवेति नोभयथापि साध्यवैकल्यम् । अत्यन्ताभावः प्रतियोग्यवच्छिन्नवृत्तिः, अभावो' हेतुर्बोध्यः । मते त्विति । अभिधेयत्वमित्यनुषज्यते । मिथ्यैवेति । स्वसमानाधिकरणात्यन्ताभावप्रतियोग्यपीत्यर्थः । अत्र अजन्यो य स्स्वसमानाधिकरणान्याभावस्तत्प्रतियोगी, स्वमते खपुष्पवत्, तथापि परप्रसिद्धस्य खपुष्पस्येव भेद स्साधयितुं शक्यत एव । अथवा अजन्याभावसामान्यस्य स्वसामानाधिकरण्यं प्रतियोगित्वं चेत्युभयसम्ब- न्धेनाभावस्साध्यः । स्वसामानाधिकरण्यपदार्थस्स्वाधिकरणसंयुक्तत्वा- भावादि : ' गुणादौ प्रसिद्धो निवेश्य । तेन सामानाधिकरण्यसामा- न्याभावाप्रसिद्धावपि न दोषः । तथाच घटादौ पक्षे संयुक्तत्वाभावघटि- तेन, गुणादौ पक्षे समवेतत्वाभावादिघटितेन उभयसम्बन्धेनाभाव- सामान्याभावस्साध्य इति ध्ययेम् । प्रतियोग्यवच्छिन्नवृत्तिरिति । प्रतियोगी अवच्छिन्नो येन तत्प्रतियोग्यवच्छिन्नं, तेन तदवच्छिन्ना वृत्ति- र्यस्य स इत्यर्थः । गोत्वादेरपि कालवृत्तित्वे गवादिदेशस्यावच्छेदक- त्वात् न गोत्वाद्यवच्छेदकावच्छिन्नवृत्तिकत्वाप्रसिद्धिः । अथवा अव- च्छिन्नवृत्तिकान्यत्वं साध्यम्; परमते गोत्वाद्यभावस्य का लवृत्तित्वे गवादिाभिन्नदेशस्यावच्छेदकत्वात् न तत्र सिद्धसाधनम् । ननु – “पूर्व कल्पो न युक्तः; त्वन्मतेऽत्यन्ताभावस्यावच्छिन्नवृत्तिकत्वस्यायुक्तत्वात् । द्वितीयकल्पोऽपि न युक्तः, कालिकसम्बन्धेन गोत्वाद्यभावस्य विशेषण- तथा कालवृत्तित्वस्य गवादिभिन्नावच्छिन्नत्वेन तत्र सिद्धसाधनाभावेऽपि समवायादिना गोत्वाद्यभावे सिद्धसाधनात्" इति चेन्न; कालत्रये कुत्रापि दृश्यं नास्तीत्यनुभवेन अत्यन्ताभावस्यावच्छिन्नवृत्तिस्वीकारणाऽऽद्य 1 अभावे. 2 भावादितिं. 3 भाववृत्तित्वे. 426 -