पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] भाविबाधोद्धारः 419 त्वसम्भवेनेतरवैयर्थ्यम् । तच्च स्वरूपासिद्धम् । पदार्थत्वहेतुः पद- शक्यत्वं चेत् स्वरूप सिद्धम् । पदलक्ष्यत्वं चेत् पदत्वलक्ष्यत्वयो- रननुगतत्वात् पक्षदृष्टान्तयोरनुगतहेत्वभावात् स्वरूपासिद्धिसाधन- वैकल्ये । अन्यतमत्वेन हेतुत्वेपि वैयर्थ्यासिद्धयादिकम् । तद्धी- विषयत्वेन हेतुत्वे चाप्रयोजकत्वादिकम् । दोषाजन्येत्यादिहेतावपि दोषत्वस्य तत्तद्भ्रमजनकत्वरूपस्याननुगमादुक्तदोषः । किञ्चिद्धमजनक- त्वमात्रनिवेशे भ्रमान्तरविषये व्यभिचारः । दोषाणामन्यतमत्वेन निवे- शेऽपि दाषाजन्यज्ञानाप्रसिद्धिः | वस्तुमात्रस्यैव किञ्चिद्रमं प्रति दोष- त्वात् । स्वज्ञानात्पूर्वभावित्वादित्यत्रापि पूर्वभावित्वस्य पूर्वकालवृत्तित्व- रूपत्वात् यत्किञ्चित्ज्ञानपूर्वभावित्वं शुक्तिरूप्यादौ व्यभिचारि । याव- स्वज्ञानपूर्ववृत्तित्वं घटादावासद्धम् । यत्किञ्चित्स्वप्रत्यक्षपूर्ववृत्तित्वं शुक्तिरूप्यादावपि सन्निकर्षादिना तत्रापि प्रत्यक्षोत्पत्तौ बाघका- भावात् ।सुखादौ साक्षिमात्रवेद्यत्वे तत्रासिद्धिः । तस्य पक्ष- बहिर्भावेऽपि स्वप्रत्यक्षोत्पत्तिकालोत्पन्न परिमाणविशेषादावसिद्धिः । संयु- 'तसमवायमात्रेण तत्प्रत्यक्षानुदयेन तावदवयवावच्छिन्नसंयोगवत्समवाय- हेतुत्वे तत्तत्पुरूषीयत्वस्य कार्यकारणतावच्छेदके निवेशे गौरवात् । पुरुषनिष्ठपरम्परासम्बन्धेन तावदवयवावच्छिन्नसंयोगस्यैव लाघवेन तत्प्र- त्यक्षहेतुत्वेन तदुत्पत्तिकालेऽपि तत्प्रत्यक्षसम्भवात् । न चैवं तत्परि- माणोत्पत्तेः पूर्वमपि तत्प्रत्यक्षापत्तिः; तदवयवावच्छिन्नत्वस्य गुरुत्वेन विजतीयसंयोगत्वेनैव हेतुत्वात्तादृशस्य तत्पूर्वमसत्त्वात् । यावत्स्व - प्रत्यक्षपूर्वृत्तित्वं तु सुतरामसिद्धम् ; ईशयोगिप्रत्यक्षाणां साक्षिणश्च स्वविषयपूर्वमपि सत्त्वात् । अयोगिजीवयावजन्यप्रत्यक्षनिवेशेऽपि व्याप्ति- ग्रहानौपयिकत्वेन यावज्जन्यपूर्ववार्त्तित्वेतरांशवैयर्थ्यम् । तदनुपादाने 1 संयुक्तसमवेतसमवायेति पां. 9 27*