पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः 420 वत्वं एतबटसमानाधिकरणावृत्ति अन्योन्याभावातिरिक्तैतडट- समानाधिकरणै तबट प्रतियागिका भावमात्रवृत्तित्वात् एतबट- प्रागभावत्ववत् । व्यधिकरणधर्मावच्छिन्नाभावपक्षे व्यधिकरण - धर्मानवच्छिनेत्यपि विशेषणीयम् । अत्र च स्वसमानाधिकरणः स्वसमानकालीनो योऽत्यन्ताभावस्तदप्रतियोगित्वलक्षणसत्त्व- सिद्धिरित्यपि न साधु । साधनावच्छिन्नसाध्यव्यापकस्यैत- द्धट प्रतियोगिकजन्यजन कान्यतरमात्रवृत्तित्वस्योपाधित्वात् । न च पक्षीभूतधर्मस्यात्यन्ताभाववृत्तित्वसन्देहे साधनाव्यापक- त्वसन्देह इति वाच्यम्; विपक्षसाधकतर्कानवतारदशायां , चासिद्धिरिति परोक्तिः प्रलापमात्रमिति ध्येयम् । अन्योन्येत्यादि । तद्धटभेद निष्ठेऽभावत्वे बाधादतिरिक्तान्तं, समवायेन तद्धटात्यन्ताभावनि- ष्ठाभावत्वे बाधात् एतद्धटसमानाधिकरणेति । सामानाधिकरण्यं नवविवृत्तिन्वं कपालरूपादौ बाधात् एतद्धटप्रतियोगिताकाभा- वेति । हेतौ च तद्धटभेदत्वे समवायावच्छिन्नतद्धटात्यन्ताभावत्वे घटा- त्यन्ताभावत्वे मेयत्वादौ च व्यभिचारात् क्रमेण विशेषणानि सार्थकानि; प्रागभाववत्वादौ साधनवैकल्याइष्टान्ते । एतद्धटेति । शुद्धसाध्य- मेतद्धटासमानकालीने तत्तद्व्यक्तित्वेपीति नत्रोपाव्यमत्त्व दाह - साधना वच्छिन्नेति । अन्यतरेति । एतद्धटप्रतियोगिकं यदेतद्धटस्य जन्यं जनकं च तयोरन्यतरदेतद्घटस्य प्रागभावो ध्वंसञ्च, तन्मात्रवृत्तित्वस्येत्यर्थः । साध्यसमव्याप्तिरक्षार्थं मात्रेति | विषमव्यापकस्याप्युपाघित्वं साध्य व्याप्यत्वांशस्य दूषकताया मनुपयोग | दिति निष्कृष्टमते तु तन्नोपादेयम् । सन्देह इति । एतद्धटे मिथ्यात्वसन्देहकाले तत्समवायिनि समवायेन तदत्यन्ताभावस्य सन्देहात् पक्षे अत्यन्ताभाववृत्तित्वसन्देहः । तद्भूट- ध्वंसप्रागभावकाले च तद्धटवति तदत्यन्ताभावो नाभ्युपेयते । तत्काले