पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

418 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः जन्यत्वात् । असगोचरशाब्दज्ञानात्मकविकल्पस्य दोषाजन्य- त्वेन असति व्यभिचारश्च । आत्मनो वृत्तिविषयत्वाभ्युपगमे दोषजन्यदेहात्मैक्यभ्रमविषयत्वात् साधनविकलो दृष्टान्तः । तदनभ्युपगमे तु अविषयत्वमात्रस्यैव परमार्थसत्त्वसाधकत्वोपपत्तौ दोषजन्यज्ञानेति विशेषणवैयर्थ्यात् व्याप्यत्वासिद्धिः । ताव- न्मात्रं च पक्षे स्वरूपासिद्धमित्यन्यत्र विस्तरः । विमतं परमा- र्थसत् स्वविषयज्ञानात्पूर्वभावित्वात् आत्मवदित्यपि न ; दृष्टि- सृष्टिपक्षे असिद्धेः । विषमव्याप्तस्यानादित्वस्य उपाधित्वाच्च । अन्योन्याभावातिरिक्तैतद्धटसमानाधिकरणैतद्धटप्रतियोगिकाभा- भ्रमविषयत्वादिति । विशिष्टात्मगोचराया अहमाकारवृत्तेश्शुद्धात्माऽपि विषय इति भावः । साधकत्वेति । व्याप्तिग्रहयोग्यत्वेत्यर्थः । तथाच व्याप्तिग्रहानुपयुक्तत्वेन वैयर्थ्यमिति भावः । उक्तरीत्या ज्ञानमात्रस्यैव दोषजन्यत्वेन ज्ञानम्बिावर्तशतव विषयतात्वावच्छिन्न- प्रतियोगिताकाभावत्वेन हेतुत्वं वाच्यम् । तथाच ज्ञानान्तविशेषणस्य प्रतियोगितानवच्छेदकत्वेऽपि प्रतियोग्यंशे विशेषणत्वं वाच्यम् । तथाच स्वसमानाधिकरणव्याप्यतावच्छेद कान्तरघटितत्वरूपमपि व्यर्थ 1 मिति ध्येयम् । दृष्टिसृष्टीति । न च प्रतिकर्मव्यवस्थाभावापत्त्या स पक्षो न युक्त इति वाच्यम् । तद्व्यवस्था हि केनचिदेव कदाचिदेव कश्चिदेव ज्ञायते इत्येवरूपा । सा च तत्पक्षेऽप्यस्ति; तत्तन्मनोवछिन्नचैतन्येषु तत्तद्विषयाणां तत्तत्काल एवाध्यासादित्युक्तापत्तेर्मोढ्यमूलकत्वात् । अत्र विशेषानुमानेष्वाद्यद्वितीययो स्स्वपदस्य पक्षदृष्टान्तपरत्व विकल्पेन पूर्वोक्त- साध्य वैकल्यादिदोषः । द्वितीये भ्रमत्वस्यैकस्याभावात् तत्तद्रमं प्रत्येव तत्तद्व्यक्तित्वेन दोषाणां हेतुत्वेन तन्निवेशेऽननुगमः । तावदन्य- तमत्वेन हेतुत्वानां हेतुत्वेऽपि दृष्टान्तमात्रवृत्तिहेतुत्वस्यैव तत्त्वेन हेतु - 1 वैयर्थ्य. -