पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] कालीनायाः दुःखनिवृत्तेः समानाधिकरणदुःखप्रागभावकालीन- त्वदर्शनमिव दुःखनिवृत्तिमात्रस्य तथात्वसाधने । नन्वेवं सामा- न्यानुमानेषु निराकृतेषु विशिष्यानुमानं भविष्यति । आत्मधीर्न स्वविषयविषयकधीबाध्या धीवात् शुक्तिधीवदित्यपि बाल- भाषितम् ; स्वविरोध्यविषयक प्रत्ययविषयकत्वस्योपाधित्वात् । अन्धोऽयं रूपज्ञानवानित्यन्धस्य रूपविषयतया कल्पितं यत् ज्ञानं तस्य रूपं नान्धगम्यमिति स्वविषयविषयकप्रत्ययबाध्यत्व- दर्शनेन व्यभिचारात् । कल्पितवात्तत्र तद्वाधने प्रकृतेऽपि वृत्तेः यत्तु ‘स्वकारणानात्मसहभावं विना निवृत्तिर्न जायेतेत्यनुकूलतर्कः प्रकृता- नुमाने विशेष : ' इति तत्तुच्छम् ; चरमनिवृत्तेर्हि कारणमुपादाननाशादि । तच्चाभावरूपम् । अदृष्टं तु न तत्कारणं तस्याभोगतत्साधनेतरत्वात् । उक्तं च तथा वर्धमानाद्यैः | तस्यान्यस्य वा भावस्य' तत्कारणत्वेऽपि तत्पूर्वसत्त्वमपेक्ष्यते न समकालत्वम् च न चरमनिवृ- भाविबाधाद्धारः 413 त्तावुपादानं, भावाद्वैतमते स्वविशिष्टं भावं वा जन्यं प्रत्येव तस्योपादानत्वात् रूपं नान्धगम्यमिति । ननु स्वविषयमात्रविषयकधी बाध्यत्वाभावस्य साध्यत्वे नायं दोष इति चेन्न; इदं रूपं तन्नेतिभ्रम विषयीभूतस्यान्ध- प्रत्यक्षावषयत्वाभावरूपतत्त्वाभावस्य अन्धप्रत्यक्षविषयत्वरूपस्येदं तदिति वाक्यजप्रमायाः कल्पितोक्तप्रत्यक्षविषयमात्रावषायण्या बाधेन व्याभिचारे प्रकृतप्रन्थतात्पर्यात् । न ह्युक्तप्रमायां तद्रूपान्याद्वेषयः, समानाधिकृत- पदद्वयजन्यत्वेन मन्मते निर्विकल्पकत्वात् । स्वविषयताया अन्यूनानति- रिक्तविषयताकज्ञा नाबाध्यत्वोक्तावपि बाध्यज्ञानस्यापीदं तदिति वाक्य- जन्यत्वेन निर्विकल्पकत्वे तत्रैव स्थले व्यभिचार; उपलक्षणविषया व्यावृत्ताकारत्वस्येवारोष्याकारत्वस्य सम्भवात् बाघकत्वस्येव बाध्यत्व 1 (चिह्नि) चाभावस्य.