पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

414 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः तु कल्पितत्वं समम् | धीपदेन चैतन्यमात्रविवक्षायां तु सिद्धसाधन- मेव । आत्माधिष्ठानक भ्रमहेतुः न स्वकार्यभ्रमाधिष्ठानज्ञानबाध्यः, भ्रमहेतुत्वात् । यदवं तदेवं यथा शुक्तयधिष्ठानकभ्रमहेतुकाचा- दीत्यपि न साधु । व्यावृत्ताकाराधिष्ठानज्ञानानवधित्वस्य स्वकार्य भ्रमाधिष्ठानानारोपितत्वस्य वा उपाधित्वात्, दूरादिदोषा- दुपलादौ यत्र चाकचक्यकल्पना तेन चाकचक्यदोषेण शुक्ता विव रजतकल्पना, तत्राधिष्ठानज्ञानेन चाकचक्करूप्ययोरुभयोरपि ka स्याप्युक्तवाक्यजन्यज्ञाने सम्भवात् । स्वपदस्य पक्षपरत्वे विशिष्टधर्मा- बच्छिन्नाभावाप्रसिद्धिश्च लाघवेन बाध्यत्वत्व मात्रस्यावच्छेदकत्वात् । स्वविषयमात्रविषकत्वनिवेशे रूपं चाक्षुषं न वेति ज्ञानं रूपं चाक्षुषमिति धीबाध्यमिति तत्रापि व्यभिचारो बोध्यः -- धीपदेनेति । आत्मव्यव हारप्रयोजकधीरात्मधीरिति भावः । काचादावंशतस्सिद्धसाधनात् -- आत्माधिष्ठानकेति । व्यावृत्ताकारेत्यादि । यस्माद्व्यावृत्ततया ज्ञातं ' स्वजन्यभ्रमाधिष्ठानं स्वजन्यभ्रमनिवर्तकं तदन्यत्वस्येत्यर्थः । अवि- द्यादिद्वितीयाभावोपलक्षितस्यब्रह्मणोधर्भ्रिमनिवर्तिकेत्यविद्यादौ तदस्तीति बोध्यन् । यद्यपि व्याप्यभ्रमस्य भ्रमानुमितिजनकस्य हृदो निर्वह्निरित्यादि- ज्ञानेन बाधात् स्फुटो व्यभिचार :; तथापि भ्रमत्वव्याप्यधर्मावच्छिन्न कार्य- तानिरूपितकारणतानिवेशे व्याप्यभ्रमस्य दोषविधया सर्वत्र व्यापक- भ्रमेष्वकारणत्वाद्धेत्वभावादेव न व्यभिचार इत्याशयेन स्थानान्तरे तमाह- दूरादीति न च चाकचक्यज्ञानं हेतुः, तच्च ने बाध्यं मन्मत इति वाच्यम् ; ज्ञायमानचाकचक्यस्यापि हेतुत्वसम्भवात् न च चाकचक्यस्यै- कस्याभावेन, भावेऽपि तद्धीमात्रेण भ्रमानुत्पादात् तत्तद्धीव्यक्तित्वेनैव तत्त- महेतुत्वमिति वाच्यम् ; प्रातीतिक तत्तच्चाकचक्यव्याक्त त्वेनैव हेतुत्व- 1 ज्ञानं. 2 निवेशेधर्मितावच्छेदकताप्रत्यासत्त्या कार्यकारणभावः इत्याधिकः पाठः. १