पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः निवृत्तिवदित्यपि निरस्तम्; पक्षदृष्टान्तयोः बन्धपदार्थस्यैकस्या- भाबेन स्वरूपासिद्धिसाधनवैकल्यान्यतरापातात् । स्वपदे चोक्तस्साध्याप्रसिद्धिदोषः । हेतौ च बन्धेतिविशेषणवैय्यर्थ्या 1 व्याप्यत्वासिद्धिः । अप्रयोजकत्वं च कस्याश्चिन्निवृत्तेरनात्म- समानकालीनत्वदर्शनात् । निवृत्तिमात्रस्य तथात्वसाधने संसार- त्यादिविवरणोक्तानुमानं तु पश्चात् परिष्कार्यमिति ध्येयम् । बन्धपदार्थ - स्येति । तत्तत्स्वातन्त्रयविरोधिरूपनानार्थकं बन्धपदम् । अतएवाविद्या वतामपि निगडादिविमोके' निर्वन्धत्वं व्यवहन्ति । आत्मान्यनिवृत्तेर्हेतु त्वेऽपि व्यर्थ विशेषणत्वं, अप्रकाशितार्थप्रकाशत्वादित्यविद्यानुमान हेतौ तु प्रकाशपदस्य आलोकप्रमान्यतरपरत्वेऽपि न क्षतिरिति भावः । यत्तु ' बन्धेति न व्यर्थम्, निवृत्तिविशेषलाभार्थत्वात्' इति; तत्तच्छम् । निवृत्तौ हि विशेषो न जाति:, किन्तु प्रतियोगिविशेषानुयोगित्वं तन्मात्रं हेतुः, तद्विशिष्टनिवृत्तित्वं वा; अन्त्ये विशेषणं व्यर्थमेव । आद्येऽपि यदि निगडादिबन्धरूपविशेषप्रतियोगिकत्वं हेतुः, तदा तदसिद्धम् । अज्ञानप्रतियोगिकत्वं यदि हेतुः, तदा साधनवैकल्यम्, सप्रतियोगिकत्वेतरवैयर्थ्यं च तद्व्यक्तित्वादिहेतुत्वेऽप्युक्तदोषः, अज्ञान- निवृत्तेः ब्रह्मरूपत्वपक्षे सिद्धसाचनं च तत्त्वधोपूर्वकालबाधित'शुक्तिरू- प्यादिरूपानात्मकालनित्वस्य ब्रह्माणि सत्त्वात्तस्या ब्रह्मान्यत्वपक्षेपि नाना जीवपक्षे तत्साध्ये स्वप्रतियोगीत्यत्र तदज्ञाननिवृत्तेरेव स्वपदेन धार्य- त्वात् एकजीवपक्षेऽपि जीवन्मुक्तिपक्षे तत् । सद्योमुक्ति पक्षे तु साध्या- प्रसिद्धयादि । स्वपद इति दृष्टान्तपरत्वे निगडरूपबन्धप्रतियोगि- विषयाद्यप्रसिद्धिः, पक्षपरत्वे च अज्ञान रूपचन्धविषयप्रसिद्धावपि तद्वि- षयकज्ञानाबाध्यानात्माप्रसिद्धिरिति भावः । तथात्वसाधन इति । 1 विमोच (क्ष) के. 2 कार्य. 3 तत्र पूर्वकालीनाबाधित. 4 तस्य. 5 ज्ञान. 412 ,