पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] रूपमित्यस्य यत्किञ्चित्स्वरूपपरत्वे सिद्धसाधनात्, आत्मस्वरूप- परत्वे साध्याप्रसिद्धेः । न हि यावदात्मस्वरूपमनुवर्तमानो - नात्मा प्रसिद्धोऽस्ति । तथा सति अनुमानवैययात् । अथ स्वरूपपदस्य समभिव्याहृतपरत्वात् व्याप्तिग्रहदशायां दृष्टान्त - स्वरूपं पक्षधर्मताग्रहदशायां च आत्मस्वरूपमेव प्राप्यत इति न साध्याप्रसिद्धिः, न वा सिद्धसाधनमिति चेन्न; शब्दस्वभावो- पन्यासस्यानुमाने अनुपयोगात् । स्वज्ञानबाध्येत्यत्र स्वशब्देऽपि तुल्योऽयं दोषः । अतएव वीमता बन्धनिवृत्तिः स्वप्रतियोगि विषयविषयकज्ञानाबाध्यानात्मसमकालीना, उक्तज्ञानाबाध्यभाव- रूपानात्मसमानकालीना वा बन्धनिवृत्तित्वात्, निगलबन्ध- उदाहरणवाक्यस्थस्वपदस्य दृष्टान्तपरत्वे पदार्थत्वस्य यावत्तत्स्वरूपानुवर्त मानानात्मवत्त्वव्यभिचारित्वेन' व्यापकता 'ग्रहासम्भवः, स्वात्मकपदा- र्थत्वस्य हेतुत्वेन तद्वारणेऽपि स्वत्वान्यवैयर्थ्य स्वरूपासिद्धिश्च । प्रतिज्ञाहेतुवाक्यस्थस्वपदयोः पक्षपरतया पक्षरूपस्वपदार्थघटितसाध्य- हेत्वो: ' प्रतिज्ञाहेतुवाक्यनिर्दिष्टयोः उदाहरणादिवाक्ये व्याप्यव्यापक- त्वादिलाभासम्भवात् कुतोऽस्य गमकत्वमित्यादि जिज्ञासानिवर्तकत्वा- सम्भवः । तथाच उक्तशब्दस्वभावोऽनुमानानुपयुक्त इत्याशयनाह- शब्दस्वभावेति । उक्तं च मणावीश्वरवादे कार्यत्वहेतुस्वोपादानाभि- ज्ञजन्यत्वसाध्ययोः व्याप्तिग्रहः किं घटोपादानान्तर्भावेन ? किं वा तत्त- दुपादानान्तर्भावेन ? किं वा उपादानमात्रान्तर्भावेन ? आद्ये व्यभिचारः । द्वितीये तत्तदुपादानत्वस्य अननुगतत्वात् कथं व्यापकताग्रहः ? अथ तच्छब्दस्य समभिव्याहृत परत्वान्न दोष इति चेन्न; अनुमाने शब्द- स्वभावोपन्यासस्य अप्रयोजकत्वात् । तृतीये तु सिद्धसाधनमिति स्व- पदस्य पक्षदृष्टान्तान्यतरपरत्वेऽपि सिद्धसाधनम् । स्वप्रागभावव्यतिरिक्ते- 1 व्यभिचारे न 2 व्यावर्तक. साध्यहेतुत्वेन. 3 भाविबाधोद्धारः - 411