पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेद:] भाविबाधोद्धारः 405 वेदान्तवाक्यजन्यवृत्तौ व्यावृत्ताकारतया अपरोक्षं तदा अनि- षेध्यत्वेन प्रपञ्चे आपरोक्ष्यशङ्कापि नास्ति । अतः प्रमाणजन्या- साधारणाकारभानस्यैवाज्ञानविरोधित्वान्नापरोक्षतामात्रेणाज्ञानप- राहतिप्रसङ्गः । यत्त्वज्ञानपदेन ज्ञानाभावोक्तौ सिद्धसाधनम्, अनिर्वचनीयाज्ञानोक्तौ च तस्य खपुष्पायमाणत्वेन प्रतियोग्य- प्रसिद्धिरिति; तत्तुच्छम्; असत्प्रतियोगिकाभावं स्वीकुर्वतः पराभ्युपगममात्रेणैव प्रतियोगिप्रसिद्धिसम्भवात् । ननु विमतं न आत्मन्यध्यस्तम्, आत्मसाक्षात्कारवत्प्रवृत्तिविषयत्वात्, यदेवं तदेवं यथा घटसाक्षात्कारवत्प्रवृत्तिविषयो घटो न तत्राध्यस्तः । न चासिद्धिः; ईशजीवन्मुक्तयोः आत्मसाक्षात्कार- वतोरपि जगद्रक्षणभिक्षाटनादौ प्रवृत्तेः । शङ्खे अध्यस्तमपि पीतत्वं न शङ्खश्वेतत्वसाक्षात्कारवत्प्रवृत्तिविषय इति न तत्र व्यभिचार इति चेन्न; प्रतिबिम्बे व्यभिचारात् । स हि मुखैक्य - साक्षात्कारवत् प्रवृत्तिविषयो मुखे अध्यस्तः, तद्व्यतिरेकेणोपल- भ्यमानत्वस्योपाधित्वाच्च । एवंच विमतं नेश्वरमायाकल्पितम्, बालानां बिशेषादर्शनात् एकत्वानिश्चयेपि विशेषदर्शिनामेक 'त्व- जानतामेव तदर्शने प्रवृत्तेरानुभाविकत्वात् । अतएव दर्पणाद्युपाधि- सन्निधानरूपदोषविशेषाजन्यभ्रमस्यैव विशेषदर्शनविरोधित्वमिति तार्कि- कादीनां सम्मतम् । उक्तं च दीधित्यादौ –' निर्णयात्मनि साधा- रणे वा दोषविशेषाजन्योपनीतभाने साधारणस्य निर्णयात्मनो वा विपरीतज्ञानम्य प्रतिबन्धकत्वात्' इति । तद्व्यतिरेकेणोपलभ्य- मानत्वस्येति । तदविषय कोपलब्धि विषयत्वस्येत्यर्थः । प्रपञ्चोप- लब्धिः सद्रूपब्रह्मविषयिकैवेति प्रपञ्चे साधनाव्यापकत्वमुपधेर्बोध्यम् । दर्शनादेक,