पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

406 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथम: एतेन – उक्तोपाधिः सर्वपक्षवृत्तित्वेन साधनव्यापकः, व्यतिरेकेणे- त्यस्य भेदेनेत्यर्थे शुद्धं ब्रह्म न जानामि घटस्फुरणमिति भेदेन प्रपञ्चोपलम्भात् । विनेत्यर्थेपि तदविषयकोपलब्धिविषयत्वपर्यवसाना दासंसारमज्ञानानावृतस्य ब्रह्मणो रूपादिहीनस्य घटाद्युपलम्भाविषय- त्वादिति निरस्तम् । यथाच शुद्धं ब्रह्म घटादिधीविषयः, तथोप- पादितं तद्व्यतिरेकेणानुपलभ्यमानत्वादिति मिथ्यात्वहेतूपपादने । किञ्च साक्षात्कारवत्त्वं विशेषणमुपलक्षणं वा आद्ये असिद्धिः ; न हि यदाऽऽत्मसाक्षात्कारः तदा द्वैते ज्ञानं प्रवृत्तिर्वा । उक्तं हि विवर- णादौ ज्ञानिनं प्रकृत्य 'कदाचिदद्वैतज्ञानं कदाचितज्ञानम्' इति । उक्तं च पूर्वमाचार्यैः दृश्यत्वहेतूपपादने- 'अज्ञानतत्कार्याविषयक ज्ञानस्यैव तदुभयनिवर्तकत्वात् ' इति । यथाच द्वैता विषयकज्ञानं जायते तथा तत्रैवोक्तम् । द्वितीये तु दृष्टशुक्तिताकेपि धर्मिणि वर्षायन्तरे रजतादावध्यस्ते प्रवृत्तेर्व्यभिचारः । न चैवमीशस्य नित्य- मद्वैतदर्शित्वात् ते प्रवृत्तिर्ज्ञानं च न स्यादिति वाच्यम्; ईशस्य हि यदद्वैतज्ञानं तन्नद्वैत दर्शनविरोधि, तत्त्वावच्छेदक- जातिविरहात् । अतएव तदादाय नासिद्धुयद्धारः साक्षात्कारमा- त्रस्य अव्यावर्तकत्वेन स्वविरोधिसाक्षात्कारस्यैव हेतौ निवेश्यत्वात् । अथैवं प्रतिबिम्बे व्यभिचारोक्तिरसङ्गता, मुखैक्यसाक्षात्कारस्य तद- निवर्तकत्वादिति चेन्न; यस्य हि साक्षात्कारस्य उपाध्यपगमक्षेण तन्निवर्तकत्वं तत्साक्षात्कारवत एव तत्र पूर्वक्षणे प्रवृत्तिसम्भवात् । न चैवमीशस्येव जीवस्यापि संसारावस्थायां भ्रम विरोधितत्त्वज्ञानाविशे- षात् ईश्वरस्यैव तत्त्वदर्शित्वं श्रुतिबोधितं कुत इति वाच्यम्; ईशं प्रत्यावरणाभावात् । अतएव सर्वज्ञत्वेऽपि तत्र न भ्रान्तत्वव्यवहारः, , भ्रम. 1 मज्ञानावतिंतस्य (मज्ञानावृत्तस्य). 2 द्वैत. 3 दर्शननिवर्तक. 4