पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

404 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः न तद्ज्ञानबाध्य सत्ववद्वा । तस्मिन्नपरोक्षेऽपि अनिषेध्यत्वेन साक्षाद्भासमानत्वात् । यदेवं तदेवं यथा घंटे अपरोक्षेपि अनिषेध्यत्वेन साक्षाद्भासमानः पटो न घटाज्ञानकार्यादिः । विपक्षे च तदापरोक्ष्ये तदज्ञानव्याहतिरेव बाधिका | न चासिद्धिः, अधिष्ठानतया सुखादिसाक्षित्वेन तदानीमपि चैतन्या- परोक्ष्यादिति चेन्न; सामान्याकारेणापरोक्ष्येपि शुक्तयादौ रजतादेरनिषेध्यत्वेन साक्षाद्भासमानतया तत्र भिचारात् । अथ व्यावृत्ताकारेण यस्मिन् भासमाने यदनिषेध्यत्वेन साक्षात् भासते, तन्नतदज्ञान कार्यादीति व्याप्तिरिति मन्यसे, तर्झसिद्धिः । न हि चैतन्यमिदानीं भ्रमनिवर्तकत्वाभिमतव्यावृत्ताकारापरोक्ष- प्रतीतिविषयः । तथा सति अदिष्ठानमेव न स्यात् । यदा तु सम्बन्धो ऽपेक्ष्यते न तु तात्त्विरूपं सत्त्वम् । सत्त्वासत्त्वयोर्भि- थोविरहत्वं तु खण्डितमेव व्यावृत्ताकारेण भ्रमनिवृत्तिस्वरूपयोग्य- ज्ञानेन । यत्तु भ्रमनिवर्तकत्वाभिम तज्ञानान्यून' विषयकापरोक्षस्यहेतौ निवेशात् तादृशाधिष्ठानज्ञानस्येदानीमपि सत्त्वात् अज्ञानव्याह तिरिति तत्तुच्छम्; स्वरूपचैतन्यस्य स्वाविषयकत्वात् स्वविषयकत्वोप अज्ञाना- विरोधित्वात् । उक्तान्यूनविषयकापरोक्षस्य अज्ञानविरोधित्वे प्रामा- ण्यशङ्कास्पदवृत्तेरपि तदापत्तेस्तद्वयावृत्तविरोधितावच्छेदकत्वेन लाघवेन कल्प्यस्य जातिविशेषस्य मुक्तयनुपधायकज्ञाने सत्त्वे मानाभावात् अज्ञानविरोधितावच्छेदकविशिष्ट परोक्षस्य हेतौ निवेशनीयस्येदानीमभा- वात्, तदिदमुक्तं न हि चैतन्यमिदानीमित्यादि । स हीति । यत्तु 'नैकत्वसाक्षात्कारवतः प्रतिबिम्बदर्शने प्रवृत्तिः, किन्तु भेदज्ञान- इति वतः, अतएव बालानां तत्र बालान्तरधीः तत्तुच्छम्;

1 साक्षात्सम्बन्धो. 2 विरोधित्कं 3 + ज्ञानसत्त्वे. ु , ज्ञानाज्ञान. -