398 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथम चारात् । यथाश्रुतस्यासिद्धेश्च । ननु नासिद्धिः, शुद्धं हि चैतन्यं न कल्पकम्; अदृष्टत्वात् । नोपहितम्, कल्पितत्वा- देवान्यथानवस्थानात् । तथा च यावद्विशेषाभावे कल्पकसामा- न्याभावसिद्धिारति चेन; शुद्धस्याप्यनाद्यविद्योपधानवशेन कल्पकत्वोपपत्तेः । कल्पकत्तं हि कल्पनां प्रत्याश्रयत्वं विष- यत्वं भासकत्वं वा; तच्च सर्व कल्पनासमसत्ताकल्पेन शुद्धत्वा व्याघातकम् । तदुक्तं संक्षेपशारीरके- आश्रयत्वविषयभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाचयो भवति नापि गोचरः ॥ इति । अस्सु वा उपहितस्य कल्पकत्वम् । न चानवस्था |
सम्बन्धस्य | शुद्धत्वाव्याघातकमिति । शुद्धस्याविद्योपहितादि- रूपानुगमात् । वस्तुतः शुद्धत्वेपि अविद्यादिरूपां कल्पनां प्रत्या- श्रयादिरूपत्वाविरोधादिति भावः । शुद्धस्य कल्पनासम्बन्धाभावपक्षेऽपि न क्षतिरित्याशयेनाह–अस्तुवेति । यत्तु – “प्रमाविषयत्वहेतौ साधन- वैकल्योक्तिरयुक्ता; विशेष्यावृत्तीत्यादि प्रमात्वे दोषाभावात् । तत्त्वा वेदकत्वरूपेऽपि न साध्याविशेषः अर्थसत्त्वाग्रहेऽपि शब्दादिना सद्वेिषयकत्वग्रहसम्भवात् । अनिषेध्यत्वेनेत्यंशस्या सिद्धेरित्यादिकमयु- क्तम् ; निषेध्यत्वेन ज्ञातस्य पालनाय प्रवृत्त्यसम्भवात् । न ह्येन्द्र- जालिकः स्वमायाकृतं पालयति, किन्तु दर्शयति । ईशस्तु पालयति ' एष लोकपाल.' इत्यादिश्रुतेः, 'सेयं देवतैक्षत' इत्यादिश्रुतेर- निषेध्यत्वेन सर्वज्ञतोक्तेः, 'यस्सर्वज्ञः सर्ववित्' इत्यादावुक्तस्य सामान्य विशेषाभ्यां ज्ञानस्य निषेध्यत्वविषयकत्वासम्भवाच्च । व्यापा- रिण इवासतो व्यतीतादेः जनकत्वोक्तिर्नयुक्ता; व्यापारपूर्वकाले हि 6 1 वृत्तित्वादि. 2 इव सतो.