पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबाधोद्धारः अन्यथा ध्वंसप्रागभावप्रतियोगित्वतद्ज्ञानविषयत्वादीनामना- श्रयत्वापत्तेः । प्रमाणबलात् कारणत्वाभ्युपगमस्यात्रापि तुल्य- त्वात् । किञ्च स्वरूपाबाध्यस्य विषयाबाध्यत्वदर्शनेन विषयबाधे स्वरूपबाध्यस्यावश्यकतया स्वप्नादिज्ञानं सदेवेत्यस्य वक्तुमशक्य- त्वात् । अनादित्वस्य विषमव्याप्तस्योपाधित्वाञ्च न चार्थक्रिया- कारित्वं प्रति परमार्थं सस्वस्य ब्रह्मणि प्रयोजकत्वेनावधारणा- दकारणककार्योत्पत्तिरूपविपक्षबाधकतर्केण हेतोस्साध्यव्यापक- तया तदव्यापकतया उपाधेः साध्याव्यापकत्वमिति वाच्यम्; प्रातिभासिकरज्जुसपदौ भयकम्पादिकार्यकारित्वदर्शनेन प्राति - मासिकसाधारणस्य तुच्छव्यावृत्तस्य प्रतीतिकालसत्त्वस्यैव अर्थ- क्रियाकारित्वं प्रति प्रयोजकत्वात् । प्रासिभासिकस्यार्थक्रिया- कारित्वानभ्युपगमे सप्रकाराबाध्येति हेतु विशेषण वैग्यर्थ्यापत्तेः । कस्मिन्नपि देशे कस्मिन्नपि काले केनापि पुरुषेणाबाध्यत्वं हि परमार्थसत्त्वम् । तदपेक्षया प्रतीतिकालसत्वस्य लघुत्वाच्च । किञ्च शुद्धस्यार्थक्रियाकारित्वाभावात् साधनविकलत्वम् । उप- हितस्य पक्षनिक्षेपात् साध्यविकलत्वम् । आरोपितमिथ्यात्त्वक- त्वादित्यपि न हेतुः; आरोपितत्वं प्रातिभासिकत्वं चेत् प्रपश्चे हेतो- रसिद्धिः । तत्सिद्धेः पारमार्थिकसिद्ध्युत्तरकालीनत्वात् । व्याव- हारिकत्वं चेच्छुक्तिरूप्यादौ व्यभिचारः । उभयसाधारण्येप्यय- मेव दोषः । कल्पकरहितत्वादित्यपि न हेतुः । असति व्यभि- 397 मित्याह – किञ्चेति । अकारणकेति । सत्य कारणहीनेत्यर्थः । यदि मिथ्याभूतं कारणं स्यात् तदा सत्यं स्यात्, यनैवं, तन्नैवं, यथा नृशृङ्गम् । अथवा कारणं यदि सत्यं न स्यात् तदा कारणं न स्यात्, यथा नृशृङ्गमिति तर्को बोध्य:- -कालसत्वस्य | काल- ●