पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः व्यावहारिकप्रामाण्याभ्युपगमात् न स्वक्रियाव्याघातः । 378 दीनां न वा- प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्र्यं सुविदितं कार्य धर्मशुद्धिमभीप्सता || 2 3 रीत्यादि बोध्यम् । प्रत्यक्षादिसिद्धद्वैतेन लौकिकवैदिककार्यमात्र निर्वाहे ' पारमार्थिकद्वैतान्तरपरत्वं यत् श्रुतेः कल्प्यते तत्प्रायस्तद्वैतं ' गले बद्धवा मरणाय लोकवेदबहिर्भूताय । कथं च तर्हि द्वैतश्रुतिसंवादित्वेनाबाध्य प्रत्यक्षमिति त्वद्गुरुणोक्तं त्वयोपपादितम् ? कथं वा प्रत्यक्षाद्यगृहीतं श्रुतिघटक पदैरुपस्थाप्य ब्रह्म तु उपहितरूपेण प्रत्यक्षादिगृहीत - मुपाध्यंशानुहुद्धसंस्कारविषयः तैः स्मारयितुं शक्यम् ? न च पार- मार्थिकद्वैतमपि व्यावहारिकद्वैतोपहितरूपेण प्रत्यक्षादिगृहीतं तद्रूपानु - हुद्धसंस्कारविषयः तदनुपहितरूपेण पदैरुपस्थाप्यत इति वाच्यम्; उक्तोपहितरूपेण प्रत्यक्षादिना तद्ग्रहणे मानाभावात् । सत्ताम्फुरण- रूपस्य ब्रह्मणः प्रपञ्चोपहितरूपेण तेन ग्रहणं त्वविवादम् । रजत- शुक्तयोरभेदग्रहेप्यनुवर्तमानभ्रमस्तु रजतभेदाज्ञान कार्यत्वात् तद्भेदज्ञा- नान्निवर्तते, बाधकमात्रं न भेदविषयक मित्याचार्यामिन इत्युक्तम् । न च शुक्तित्वज्ञानस्यापि शुक्तित्वं रजतभेदव्याप्यमित्याकारोद्बुद्धसंस्का- रविशिष्टस्यैव बाधकत्वात् बाधकमात्रं भेदविषयकमेवेति वाच्यम्; प्रमाया एव बाधकत्वादुक्तसंस्कारस्य तदुपाधित्वेन बाधककोट्य- प्रवेशात् अनुभवानुरोधेन उक्तसंस्काराविशेषितज्ञानस्यापि बाधक- त्वाच्च । किंच यद्विशिष्टाधिष्ठानधीत्वेन बाधकता, तन्न बाधकधीबा- ध्यमित्येव त्वया वाच्यम् । अन्यथा रजतादेः बाध्यस्यपि भेदप्र- तियोगित्वेन बाधकधीविषयत्वेन व्यभिचारात् । तथाच न नः क्षतिः । 3 गर्हाभूताय. , 1 निर्वाहात्. 2 तत्प्रशस्तद्वैतं.