पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] भाविबाधोद्धारः 379 इत्यादिस्मृतिविरोधः | तस्मान् सिद्धं बाधनिश्चयेन तच्छङ्कया वा प्रत्यक्षादे: अद्वैतागमानुमानाद्यविरोधित्वम् || इति भाविबाधोपपत्तिः. ' 2 न हि यद्भेदप्रकारकत्वेन या धीः बाधिका स भेदस्तद्वाध्य इति नस्स- म्मतम् । न च 'नेह नानास्ति किञ्चन, शिवमद्वैतम्' इत्यादिश्रुति- जन्यज्ञानस्य द्वैताभावविशिष्ट विषयकत्वेन द्वैताभावबाधकत्वात् व्यभि चार इति वाच्यम् ; न हि द्वैतत्वावच्छिन्नाभावस्य स्वविशिष्टब्रह्मविष- यकत्वेन बाधकं तत् ; किन्तु तादृशाभावाभावावशिष्ट ' ब्रह्मज्ञानत्वेन । किंचनेतिसर्वनाम्ना तत्तदसाधारणरूपावच्छिन्नाभावानां बोधनात् यद्वि- शिष्टाधिष्ठानधीत्वेन बाधकत्वं यतन्निरूपितं बाध्यत्वं न तस्येति द्वैनाभावाभावम्यापि बाध्यत्वं नानुपपन्नम् । शिवमद्वैतमित्यादिश्रुति- जन्यधीम्त्वखण्डविषयकत्वेनैव बाधिकेति ध्येयम् । पीतभेदप्रत्यक्षान- वर्त्यो भ्रमः पीतभेदाज्ञानकार्य इति नोक्तरीतिक्षतिः । शब्दस्य यद्यपि प्रत्यक्षमुपजीव्यं, तथापि न तत्तात्त्विकप्रामाण्यमुपजीव्यमि- त्युक्तम् । किञ्च चक्षुरादीन्द्रियनिष्ठं प्रमाकरणत्वमपि शाब्देष्टसाधन- ताज्ञानाधीनप्रवृत्तिजन्यघर्षणाद्यधीनचक्षुरादिसापेक्षमिति कथं न शब्दो- पजीवकम्, इन्द्रियत्वावच्छेदेना तथात्ववत् शब्दज्ञानत्वावच्छेदनापि न प्रत्यक्षोपजविकत्वम् । सत्प्रतिपक्षन्यायेन श्रुतावपि शङ्कापतिस्तु प्रत्यक्ष एव शङ्काया लब्धावकाशत्वेनैव पूर्वमेव प्रत्युक्ता; पूर्व सत्प्रतिपक्ष - वदन्यतरत्वेन बाध्यत्व — शङ्कायामपि पश्चाच्छुतेर्बलवत्त्वप्रतिसन्धानेन प्रत्यक्ष ' एव शङ्कावकोशात् । किञ्च श्रुतौ शङ्कावानपि नास्माकं क्षतिः; बाध्यज्ञानापेक्षया अन्यूनबलत्वस्यैव बाधकतायां प्रयोजकत्वसम्भवात् । 3 4 5 1 द्वैतभावविशिष्टब्रह्म. 2 तादृशाभावे विशिष्ट 3 रीतिरिति भावः. 4 सपक्ष. 5 6 बाधकत्व. प्रत्यक्षत्व,