पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबा धोद्धारः 377 णेति द्रष्टव्यम् । एवंच ताश्विकप्रामाण्याभावेऽपि प्रत्यक्षा- अक्षतेः । वृत्तिप्रतिबिम्बितस्य साक्षिताप्ययुक्ता ; वृतेर्विषयि - त्वापत्त्या विषयत्वासम्भवात् वृत्त्य न्तरोपहितभास्यत्वेऽनवस्थापत्तेः । चिन्मात्रस्य साक्षितौचित्यात् भ्रमजन्यत्वस्य विषयबाधाप्रयोजकत्वा- दित्ययुक्तम् ; बाध्यतत्कारणयोरेक विषयकत्वे भ्रमजन्यत्वस्य बाधप्र- योजकत्वसम्भवात् योग्यता भ्रमजन्यशाब्दबोधे तथा दर्शनात् । द्वैतम्य प्रत्यक्षादिलौकिकमानेत्याद्यपि न युक्तम् ; प्रत्यक्षादिगृहीतव्यावहारिक- सत्त्वद्वैतान्यपारमार्थिकद्वैतग्राहकत्वेन द्वैतश्रुतेरनुवादकत्वात् । इयं शुक्तिरित्येवेत्याद्ययुक्तम्; रजतशुक्तयोरभेदग्रहे भ्रमानिवृतेः भेदग्रहे तन्निवृत्तरानुभविकत्वात् । अतएव पीतश्शङ्ख इति भ्रमस्य शङ्खत्व- प्रत्यक्षेऽप्यनुवृत्तिः, न तु पतिभेदप्रत्यक्षे । एवं समत्वेन प्रमाणान्तर इत्याद्ययुक्तम्; शब्दो ज्ञात एव प्रमाकरणमिति तत्प्रामाण्यं प्रत्यक्षो- पंजीवकं, इन्द्रियं तु न तथेति तत्प्रामाण्यं न ज्ञब्दोपजीवकमित्युप- जीव्येन प्रत्यक्षण शब्दस्यासमत्वात् । न हि सत्प्रतिपक्ष इत्याद्ययुक्तम् ; सत्प्रतिपक्षन्यायेन प्रत्यक्ष इव श्रुतावपि शङ्कापत्तेः । अतएवागमादिप्र- माणमूलकेत्याद्ययुक्तम् । मूलहान्यापत्तिसमाधानमपि न युक्तम् ; नेदं रजतमिति ज्ञान शङ्कास्पदश्रुत्यानुगुण्यरूपस्य विशेषस्याप्रयोजकत्वात् "- इति, तचुच्छम् ; मन्मते द्रष्टृ मात्रस्य कल्पितत्वात् तेन अद्रष्टृत्वादि - सिद्धः । वृत्तस्तूपाधित्वेऽपि विशेषणत्वाभावेन न विषयित्वम् । यथाच विषयत्वेऽपि नानवस्था तथोक्तम् । शुद्धचितः साक्षित्वं तु प्रत्युक्तम् । स्वविषयविषयकभ्रमजन्यत्वं न बाघप्रयोजकं, लिङ्गाभासधीजन्यानुमित्या- दो व्यभिचारात् । स्वविषयतापर्याप्त्यधिकरणविषयक श्रमजन्यत्वादिकमपि प्रतियोगिता अभावीया इत्याकारायां लिङ्गाभासजन्यानुमितौ व्यभिचा- , 1 व्यक्तय. 2 दृष्ट. 3 अदृष्टत्वादि. १ , , -