पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः । जकाभावात् । अतएव नानन्दश्रुतेरप्रामाण्यम् । तदुक्तं खण्डने- अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि । अबाधात्तु प्रमामत्र स्वतः प्रामाण्यनिश्चलाम् || इति । उक्तं च सुरेश्वरवार्तिके- अतोऽवबोधकत्वेन दुष्टकारण वर्जनात् । 376 अबाधाच्च प्रमाणत्वं वस्तुन्यक्षादिवच्छ्रतेः ।। इति । अत्र चाक्षादिवदिति निदर्शनं व्यावहारिकप्रामाण्यमात्रे- न्तेति । यद्यपि कलहादिस्थले अत्यन्तमसति विरोधिधीविषयी भूतेऽ- प्यर्थे शाब्दं ज्ञानमानुभाविकं भ्रमरूपं शब्द: करोति, तथाप्यत्र सद्वितीया 'त्वादिधीविषयत्वेन तादृशेऽप्यद्वितीयशुद्धानन्दे प्रमामेव करोति ; उत्पत्तौ स्वतस्त्वापवादकस्य वाक्यार्थभ्रमप्रमादादेः शब्ददो- षय ज्ञप्तौ स्वतस्त्वापवादकस्य मानान्तरबाधितार्थकत्वग्रहस्य कल- हादिस्थले सत्त्वेपि अद्वैतानन्दबोधक श्रुतौ अबाधात् उक्त पवादका- भावात् स्वतः प्रामाण्येन निचलां नियतसम्बन्धम् । यत उत्पत्तौ ज्ञप्तौ चात्र ज्ञानप्रामाण्यस्य स्वतस्त्वमनपवादकं, अतः प्रमामत्र करोतीत्यर्थः । अवबोधकत्वेनेति । अज्ञातज्ञापकत्वेनेत्यर्थः । तथा- चानुवादकत्वलक्षणमप्रामाण्यं निरस्तम् । उत्पत्तौ स्वतःत्वापवादकं निरस्य- - - ति - दुष्टेति । ज्ञप्तौ तान्नरस्यति - अबाधादिति । निदर्शनमिति । यथा व्यावहारिकप्रामाण्ये आगन्तुकदोषाप्रयुक्तविषयकत्वं व्यवस्थापकं, तथा तात्त्विकप्रामाण्ये दोषसामान्याप्रयुक्तविषयकत्वमिति स्वापवादक- प्रयुक्त विषयघटितप्रामाण्यपदार्थत्वेन साधारणधर्मेण दृष्टान्तदा- न्तिकतेति भावः ॥ - यत्तु – “स्वप्ने द्रष्टारमित्याद्ययुक्तं; दुष्टकरणस्य कल्पितत्वेन - अद्रष्टृत्वात्, यो यो यद्धमद्रष्टा तस्य तद्धाधेऽप्यबाधनियमस्य 1 सत्त्वद्वितीय.