पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] भाविबाधोद्धारः 1 भ्रमेच्छाविरहविशिष्टं तदभावव्याप्यज्ञानं तादृशभ्रमे प्रतिबन्धकमु- च्यत एव तैः । तत्र यद्यपच्छिाजन्यस्यास्मन्मते ज्ञानत्वाभावादुक्तेच्छा- विरहो बाधकतावच्छेदके न निवेश्यते, अनुभवबलाच्च व्याप्यत्वानवगा- हिज्ञानस्यापि बाधकत्वं; तथापि व्याप्यत्वेन ज्ञातविषयकज्ञानस्य भ्रमवि- रोधित्वमविवादमेव । अथ तदभावादिव्याप्यत्वानवगाहिज्ञानस्य तद्भ- मविरोधित्वं स्वविषये तदभावत्वाद्यवगाहित्वे तदभावा दिव्याप्यत्व- प्रकारको हुद्धसंस्कारविशिष्टत्वे वा नान्यथेति परेषामाग्रह, तथापि नास्माकं क्षतिः; शुक्तित्वादौ रजतभेदादिव्याप्यत्वप्रकार कसंस्कारविशि- ष्टस्य तत्प्रकारकज्ञानस्य शुद्धब्रह्मणि द्वैताभावादिव्याप्यत्वप्रकारकसंस्का- रविशिष्टस्य तज्ज्ञानस्य रजतस्य द्वैतस्य च भ्रमे विरोधित्वसम्भवात् । न चैवं द्वैताभावव्याप्यत्वविशिष्टविषयकज्ञानस्यापि द्वैतभ्रम विरोधित्वसम्भ वेन शुद्धज्ञानस्यैव श्रुत्यादिना तद्बोधनं विरुद्धमिति वाच्यम्; उक्त- विशिष्ट विषयकस्य शुद्धविषयकस्य वा चिरसञ्चित सद्वैत ब्रह्मवासनाभिर- प्रामाण्यज्ञानानास्कन्दितत्वाभावेन श्रवणादिपाटवोत्तरज्ञान विशेषस्यैव त- त्सम्भवात्, तस्य चोह्रुद्धतादृशसंस्कारवैशिष्ट्यावश्यकत्वात् शुद्धविषय- कत्वेऽपि तादृशभ्रमविरोधित्व सम्भवात् । शुद्धान्यविषये तत्त्वमस्यादिश्रुतेः तात्पर्ये प्रयोजनाभावात् शुद्धमात्र तात्पर्यग्राहकतयोपक्रमादिकं लिङ्गं प्रवृत्तमिति तदनुसारेण तमेव विदित्वेत्यादिश्रुत्या तथा बोधनस्य युक्त- त्वात् । अथ तथाप्यनुपस्थितेन गिरिदर्यादिवर्तिवस्तुमात्रगत विशेषेणा- वच्छिन्न प्रतियोगिताकाभावव्याप्यत्वेन संस्काराभावात् तेन रूपेण द्वैतभ्रम- निवृत्तिः कथमिति चेत् स्वत एव, कारणाभावात्; तादृशभ्रमस्य निवृ तिर्हि विश्वसत्यत्वमतेऽनुत्पाद: । कारणोच्छेदपूर्वकोच्छेदस्तु मन्मत एवोपस्थितरूपेण द्वैतं सदिति भ्रमं प्रति तेन रूपेण द्वैताभावव्याप्यत्वेन संस्कृत सद्रूपज्ञानस्य विरोधित्वमित्येतन्मात्रं सर्वसम्मतमित्युक्तम् ॥ 1 तादृशाभावा. 361 -