पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः किञ्च ब्रह्मणि तादात्म्येन दृश्यप्रकारकभ्रममात्रस्य जडत्वा- दिमाननियमादनात्ममात्रं जडतया दुःखतया मिथ्यात्वेन च भाति, आत्मा तु चिद्रूपत्वादिनेति विवरणाद्युक्तेः दृश्यभ्रमं प्रति पूर्णा- नन्दस्वरूपज्ञानं विशेषत्युिक्तम्; जडत्वादिधर्मस्य पूर्णानन्दस्वरूपत्वात् । स्वीक्रियते हि परैरपि घंटे तादात्म्येन घटान्यभ्रमे घटत्वादिविषय- कज्ञानस्य विरोधित्वम् । अन्यथा घटो घटादन्य इति श्रमापत्तेः । न चैवमपि निर्विकल्पकस्य ब्रह्मज्ञानस्य विरोधित्वानुपपत्तिरिति वाच्यम्; घटत्वावच्छिन्न प्रतियोगिताकभेदविशिष्टनिष्ठ 'प्रकारतानिरूपितविशेष्यता- वच्छेदकत्वसम्बन्धेन प्रत्यक्ष प्रति तदिच्छाविरह विशिष्टज्ञानत्वेन घटत्व- निष्ठेन अनवच्छिन्नविषयतासम्बन्धेन प्रतिबन्धकत्वं हि परैः स्वीक्रियते । जातिमान् घटान्य इत्यनाहार्यप्रत्यक्षोदयाद नवच्छिन्नेति । घट इति ज्ञाने सत्यपि तादृशप्रत्यक्षोदयादवच्छेदकत्वेऽप्यनवच्छिन्नति देयम् । तथाच पूर्णानन्दरूपतद्व्यक्तित्वावच्छिन्न प्रतियोगिताकभेदविशिष्ट प्रका रतानिरूपितविशेष्यतावच्छेदकत्वसम्बन्धेन प्रत्यक्षे तदिच्छाविरह- विशिष्टज्ञानत्वेन पूर्णानन्दस्वरूपनिष्ठेन अनवच्छिन्नविषयतासम्बन्धेन विरोधित्वस्यापि सर्वसम्मतत्वात् चरमब्रह्मज्ञानकाले जडत्वादिरूपेण ज्ञाने मुमुक्षोरिच्छाविरहात् चरमस्य ब्रह्मनिर्विकल्पस्य सर्वसम्मतमेव तादृशज्ञानविरोधित्वम् । तथाच मन्मते ज्ञानस्येच्छा जन्यत्वास्वीका. रेणोक्तेच्छाविरह विशिष्टरूपेण ब्रह्मज्ञानस्य विरोधित्वास्वीकारेऽप्यना- त्मज्ञानं प्रत्य (क्ष) प्रामाण्यज्ञानानास्कन्दित ब्रह्मज्ञानत्वेन विरोधित्वं स्वी- क्रियते ; जडत्वादेः प्रतिबध्यतावच्छेदके निवेशाभावेन लाघवात् । अपिचेच्छा (द्य) घटिताज्ञानसामग्री अनिच्छाविषयज्ञानविरोधिनीति परेषां सम्मतमिति ब्रह्मनिर्विकल्पस्य मोक्षहेतुत्वेन श्रुत्यादिसिद्धस्य तार्किक शिरोमण्यादिसम्मतस्य च मुमुक्षोरत्यन्तमिष्टतया अन्यज्ञानस्य तदभावेन , 1 बिश्वनिष्ठ. 2 विशेष. 3 मानत्वेन. 362 8