पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धि व्याख्यायां गुरुचन्द्रिकायां [ प्रथमः गृहादौ णत्वादिधर्मान्तरोपस्थितिः व्यर्था, यत्र तादृशकाकादिमचाज्ञानं नास्ति, तत्र तादृशभ्रमनिवृत्तये सम्बन्धि 'ज्ञानविधया काकादिधी- जन्योत्तृणत्वादिस्मृतिजन्यतद्विशिष्टबुद्धेरुपयोगित्वेऽपि ' काकवन्तो गृहाः' इत्यादिवाक्यार्थबोधस्थले तादृशकाकादिमत्ताज्ञानस्यैव तादृश भ्रम- विरोधित्वसम्भवात् इति वाच्यम्; 'इदानीं गृहा नोत्तॄणाः' इत्यादिभ्रमे इदानीं तादृशकाकवन्त इत्यादिज्ञानस्यैव निवर्तकतया काकासत्त्व- दशायां तदसम्भवेन उत्तृणत्वायुपस्थित्यघनताद्वारीष्टबुद्धेरावश्यकत्वात् । न चोत्तॄणत्वव्याप्यतया काकादिज्ञानाय पूर्वमुत्तृणत्वाद्युपस्थित्यावश्य- कत्वात् तादृशज्ञानेन पुनः तदुपस्थितिकल्पना व्यर्थेति वाच्यम् ; व्याप्य - त्वसंस्कारविशिष्टका का दिज्ञानस्यैव उपस्थापकत्वात् । यद्यपि रजतादि- भ्रमनिवर्तकस्य शुक्तित्वादिप्रकारकज्ञानस्य व्यावर्तकतावच्छेदकीभूतेन रजतभेदव्याप्यत्वादिना न शुक्तित्वादिविषयकत्वम्; तथापि तस्य तादृश भ्रममूलाज्ञानसमानविषयकत्वेन उक्ताज्ञानोच्छेदकत्वेन भ्रमनिव- र्तकत्वम् । अतो वस्तुगत्या व्यावर्तकतावच्छेदकरूपविशिष्टं यत्त- प्रकारकज्ञानं भ्रमनिवर्तकं वाच्यम् । तथाच शुद्धब्रह्मणोऽपि तादा- त्म्येन द्वैताभावव्याप्यत्वात् ' तादात्म्येन स्वसम्बन्धिनि तस्मिन् ज्ञाते उ युक्तैव द्वैतभ्रमनिवृत्तिः । अतएव तादात्म्येन स्नेहाद्यभावव्याप्यत्वेन ज्ञाने स्नेहादिभ्रमनिवृत्तिः तार्किकादिभिः स्वीक्रियते । न हि तैः स्नेहाद्यभावस्य तादात्म्येन व्याप्यः स्नेहवानिति भ्रमः स्वीक्रियते । अतएव वस्तुगत्या व्याप्यं यत् स्वं तादात्म्येन तदप्रकारकत्वेऽपि ब्रह्म- ज्ञानस्य भ्रमनिवर्तकत्वमव्याहतम् । यादृशस्य हि ज्ञानस्य तार्किका- दिभिः यादृशभ्रमप्रतिबन्धकत्वमुच्यते तादृशस्य ताइशभ्रमोच्छेदकत्व. मस्माभिरप्युच्यते । तथाच तादात्म्येन तदभावव्याप्यं तद्वदिति 8 ज्ञाने. 4 ज्ञाते 360 P 1 काकादिसम्बन्धि. 2 द्वैताभावस्य व्यापकत्वात्. 5 व्याप्यं यत्तद्वदिति .