पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाविबाधोद्धारः परिच्छेदः] स्याप्रमाणतया शङ्कयमानत्वेनाबाधकतया च बाधकसामान्याभावे निश्चिते बाधशङ्का न युक्तेति वाच्यम्; शब्द लिङ्गयोः प्रत्यक्ष- बाधकत्वस्य व्यवस्थापितत्वात्, प्रत्येकं विशेषाभावनिश्चयेऽपि विशेषाणामियत्तानवधारणदशायां संशयसम्भवात्, प्रत्यक्षस्या- प्रमाणतया शङ्कयमानत्वेन शङ्काविरहोपपादनस्यासम्भववुक्ति- कत्वाच्च । अथैवं जाग्रदादिज्ञानस्याप्रमात्वे स्वप्नदृष्टस्य शुक्तिरूप्यादेश्व बाधासिद्धौ कथं दृष्टान्तसिद्धिः स्यादिति आरोप्यसत्ताधिकसत्ताकविषयत्वेनापेक्षिकप्रमाणत्वेन अन्यूनसत्ताकविषयत्वेन वा बाधकत्वात् । अतएव यदुक्तं बौद्धं प्रति भट्टवार्तिके- चेन्न; ● 357 प्रत्यक्षस्येति । प्रत्यक्षान्तरस्येत्यर्थः । यदि प्रत्यक्षान्तरत्वावच्छेदेना- प्रामाण्यशङ्का, तदा प्रत्यक्षमात्रे स्वविषयसत्त्वावगाहित्वस्य त्वयापि स्वीकारात्, विषयान्तरांश इव सत्त्वांशेऽप्यप्रामाण्यशङ्कासम्भवः । अथ तदवच्छेदेन सा न, तदा प्रत्यक्षान्तररूपस्य बाधकस्य शङ्कासम्भवादित्युभयथापि न शङ्काविरहोपपादनसम्भव इत्याशयः । आरोग्यसत्ताधिकेति । प्रातीतिक व्यावहारिकपारमार्थिकसत्तानां पूर्व- पूर्वापेक्षया उत्तरोत्तरस्याधिक्यम् । तत्र पल्लवाविद्यावच्छिन्नं चैतन्य- माद्या, मूलाविद्यावच्छिन्नं तत् द्वितीया, शुद्धं तत्तृतीया । अथवा अज्ञानविषयतावच्छेदकत्वं द्वितीया, शुद्धाचदन्यत्वे सति तदभाव आद्या, सुखादेर्व्यावहारिकत्वपक्षे विशेषणान्तरं देयम् । प्राती- तिकस्येव शुद्धचितोपि तदभावात्तदन्यत्वनिवेश: । बाध्य - धीविषयसत्तापेक्षया उक्ताधिकसत्ताकविषयकत्वरूपमापेक्षिकप्रमाणत्वं - विनापि स्वामधियः म्वाप्नधबाधकत्वस्य स्वयमुक्तत्वादाह – अन्यूनेति । । शुद्धचैतन्यत्वे. 2 साध्य.