पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

356 अद्वैतसिद्धिव्याख्यायां गुरुचान्द्रकायां जीव्यनुमानातिरिक्तयुक्तिविषयम्; बलचिन्ताया एवानवकाशात् || [ प्रथमः एकत्र प्रामाण्यनिश्चये बला- इति प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम्. भाविबाघोद्वार: एवंच 'भाविबाधनिश्चयाच' इति यदुक्तं, तदप्युपपन्नमेव; प्रकारान्तरेणाबाधितस्य चन्द्रप्रादेशिकत्व प्रत्यक्षस्य यथा आग - मेन बाधः, तथा प्रकारान्तरेणाबाधितस्य 'सन् घटः' इत्यादि- प्रत्यक्षस्य मिथ्यात्वबोधकागमेन बाध इति निर्णयात् । एवंच भाविबाधशङ्कामादाय यत्परैर्दूषणमुक्तं तदनुक्तोपालम्भनतया अपास्तम् । वस्तुतस्तु बाधशङ्कामादायापि प्रत्यक्षस्य बाधकतो- द्धारः समीचीन एव । प्रत्यक्षशब्दयोः बलाबलविचारात् प्राक् किमयं शब्द उपचरितार्थ : ? आहोस्वित् प्रत्यक्षमप्रमाणम् ? इति शङ्कायाकुंभयोरबाधकत्वप्राप्तौ तात्पर्यलिङ्गैः श्रूयमाणार्थपरतया निश्चितस्यागमस्य उपचरितार्थत्वशङ्काव्युदासेन लब्धावकाशत्व- सम्भवात् । न च शब्दलिङ्गयोः प्रत्यक्षाबाधकतया प्रत्यक्षान्तर- र्निरवकाशत्वश्रुतित्वादिना तादृशी, तदुपजीवित्वाइढतर्कयुक्तत्वाच्च तद- नुमानमपि तादृशामिति भावः ॥ तर्कैः सारस्वतै रत्नैश्चन्द्रिका चन्द्रभूषणैः । अक्षे लिङ्गाद्यबाध्यत्वे बाधकं ध्वान्तनाशकम् || इति प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम्. लब्धावकाशत्वसम्भवादिति । प्रत्यक्षे बाघशङ्काया इत्यादिः ।