पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां प्रतियोगिनि दृष्टे च जाग्रदोघे मृषा भवेत् । स्वमादिदृष्टिरस्माकं तव भेदोऽपि किंकृतः ॥ इति, तत्सङ्गच्छते । ननु भ्रमकालीनापरोक्षबुद्धथविषयविशेष- प्रतियोगिनि दृष्ट इति । प्रतियोगित्वेन मानसिद्धे जाग्रहोघे इत्यर्थः । प्रतियोगित्वं च उक्तसत्ताक विषयकत्वम् । अथवा जाग्रद्वोषेन प्रतियोगिनि दृष्टे विषयीकृते इत्यर्थः । प्रतियोगित्वं च उक्तसत्ताश्रयत्वम् । अस्माकं ज्ञानातिरिक्तज्ञेयस्य उक्तसत्तावादिनाम् । स्वप्नादीति । आदिना शुक्तिरू- प्यादिप्रातीतिकस्य व्यावहारिकस्य च सङ्ग्रह । मृषा बाध्या । तब ज्ञानातिरिक्तं ज्ञेयं सर्वमलीकमिति वादिनो योगाचारस्य । भेदः बाध्यबाघकभावादिः । किंकृत इति । ज्ञानान्यविषये उक्तसत्तान- श्रीकारात् ज्ञानात्मक विषयस्य ज्ञानेन सह विषयविषयिभावसम्बन्धानु- रोघे ज्ञानाद्भिन्नत्वेनापि स्वीकार्यतया भेदाभेदयोस्साहित्यविरोधात्, अभेदादिसम्बन्धमात्रस्य च सम्बन्धान्तरसापेक्षत्वादिना दुर्वचत्वात् । ज्ञानज्ञेयसम्बन्ध सापेक्षसिद्धिको ज्ञेयांश इव ज्ञानांशोऽपि त्वन्मते बाध्यः स्यात् इदं ज्ञानमिदं ज्ञेयमिति बुद्धयोरन्यूनसत्ताकविषय- कत्वाविशेषात् । अथास्तु तथैव माध्यमिकस्य शून्यवाद इति चेन्न; ज्ञानस्य लाघवेन क्षणिकत्वाद्यस्वीकारात् उ तत्स्वरूपमात्रे सन्देहाद्य- भावेन प्रकाश्यत्वाकल्पनाच स्फुरणस्वरूपबाघस्य अनुपलब्धेः तद्बाध्यत्वे मानाभावात्, स्फुरणरूपस्य तदन्यबाधकता योग्यधीविषयताकल्पन- स्योचितत्वादिति । त्वन्मते बाघकताप्रयोजकं रूपं दुर्वचमिति किशब्देनाक्षिप्यत इति भावः । परमते शुक्तिरूप्यादेः असत्त्व- स्वीकारेण तत्सत्ताधिकसत्तादेः अप्रसिद्ध्या न बाध्यत्वं सम्भवति, मन्मते तु सम्भवत्येवेत्याशयेनाह – तत्सङ्गच्छत इति । भ्रमकाल नेति । तादृशबुद्धिः अधिष्ठानसामान्यांशषी:, तदविषयो विशेष 9 3

1 सत्ताकसंज्ञा. 2 भावानुरोधेन. 3 यत्स्वीकारात् 358 [प्रथमः