पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम् 353 , बाध्यत इति अन्यत्रापि तथा भवितव्यमिति चेन्नैबम्; यतो युक्तिरेवैषा । यद्यद्दूरस्थाल्पपीरमाणज्ञानं तत्तदूरदोषनिबन्धनम- प्रमा, शैला ग्रस्थविटयल्प परिमाणज्ञानवदिदमपि तथेति । तथा च एवंरूपया युक्तथैव चन्द्रप्रादेशिकत्वादिप्रत्यक्षस्य बाधं वदन् युक्तया न प्रत्यक्षस्य बाध इत्यनेना जैषीः परं मन्दबुद्धे मन्दाक्षं न तु परम् । एवं 'पीतश्शङ्खः' इति प्रत्यक्षेऽपि प्राचानार्थाभावप्रत्यक्षं न बाधकम् तस्येदानीमभावात् । न च तत्स्मृतिर्वाधिका तस्या अनुभवादुर्बलत्वात् । केवलं यक्तयुत्पादन एव सोपयुंज्यते । तेन युक्तयागमाभ्यामेव उदाहृतस्थलेषु बाधः । यत्तु क्वचिद्यु- तयादे: बाघकत्वदर्शनमात्रेण सर्वत्र न बाधकत्वं वक्तुं शक्यम्, युक्तयादिबाधकताया अनुत्रियमाणप्रत्यक्ष गौरवनिबन्ध- नत्वादित्युक्तम् ; एतदनुक्तोपालम्भनम् । न हि मया क्वचिद्दर्श- उपवीतच्छेदे पुनरुपवीतान्तरग्रहणे क्रमादेः बाघः, वामपार्श्वस्धपदार्थस्य दक्षिणहस्तेनानुष्ठाने प्रयोगशीघ्रत्वादिबाधः । तत्स्मृतिः तज्जन्यस्मृतिः । दुर्बलत्वादिति । गृहीतग्राहकत्वनियतजातीयत्वादिना दौर्बल्यमिति । स्मृतेर्बाधकत्वेऽपि सिद्धं नस्समीहितं परोक्षस्यापरोक्ष- बाघकत्वादित्यपि बोध्यम् । यत्तु – 'दूरस्थतरुपरिमाणादिप्रत्यक्षे नोक्तरीत्या युक्तया बाघ:, किन्तु दूरादिदोष जन्यत्वर्धा सहकृतेन साक्षिणैव' इति, तत्तुच्छम् ; यदि हि भ्रमत्वे साक्षिणोऽनावृतः सम्बन्धः, तदोक्तधीः क्वोपयुज्यते ? तेनैव भ्रमत्वे व्यवहार सम्भवात् । अन्वयव्यतिरेकाभ्यां सापि व्यवहारे आवरणनिवृत्तौ वा कारणं इति चेन्न; अपूर्वकल्पनापत्तेः । अथोक्तषीविशिष्टज्ञानस्यैव भावः -- 3 4 भ्रमत्व - 5 मनावृतं 5, तदा भ्रमोत्पत्तिद्वितीयक्षणोत्पन्नया तथा विशिष्टज्ञाने 4 कारणं, 1 दूरत्वादिना दोष. ? भ्रमव्यवहार. 3 संविद्वयवहारे. येनोक्तकल्पनापूर्वकल्पनापत्तिः इति पा. 5 भ्रमत्वमावश्यकमित्यानावृतं. A.S.V. 23