पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

354 अद्वैतसिद्धिभ्याख्यायां गुरुचन्द्रिकार्या [ प्रथमः नमात्रेण युक्तेर्बाधकता सर्वत्रोच्यते, अपितु चन्द्रप्रादेशिकत्व- शङ्खपीतत्वप्रत्यक्षादौ यावदागमादेः बाधकताप्रयोजकं दृष्टं ताव- त्सत्वेन । न च तत्रानुत्रियमाणं प्रत्यक्षमस्ति; यन्नौरवेण बाधकतायां अन्यथासिद्धिं ब्रूयाः । तस्माच्चन्द्रप्रादेशिकत्व - प्रत्यक्षस्य प्रपञ्चसत्त्वप्रत्यक्षस्य च तुल्यवदेव बाध्यता । युक्तया- द्वितीयक्षण इव प्रथमक्षणेऽप्यनावृतं तत्स्यात् । आवृतं वा द्वितीय- क्षणेऽपिं स्यात्, आवरणनिवर्तकाभावात् । अथाज्ञानैकत्वपक्षे तत्त द्विषयाकारवृत्स्यभावविशिष्टाज्ञानस्य तत्तद्विषयावारकत्ववदुक्तधीविरहवि- शिष्टाज्ञानं भ्रमत्वावारकमिति, तदप्यपूर्वकल्पनम् । तस्माद्दोषजन्य- स्वादिलिङ्गकभ्रमत्वानुमित्यैव तदावरणाभिभव इति क्लृप्तरीतिरेव साध्वीति ध्येयम् । ननु नभोनैल्येनानुमानं बाधकं, सविधे नभसि नैल्य- सत्त्वेऽपि तस्य नीहारावगुण्ठनस्येव सामीप्यदोषादग्रहसम्भवादुक्त- तर्कानवतारेणानुमानासिद्धोरीति चेन्न; सामीप्यदोषात्तदग्रहो दूरत्व- दोषात्तद्ग्रहो वेत्यत्र विनिगमकाभावात् । न च दोषग्राह्यत्वे नभो- नैल्यस्य प्रातीतिकत्वेन अनन्तोत्पत्तिध्वंस कल्पनागौरवमिति वाच्यम्; तस्य व्यावहारिकत्वेपि अनन्ततच्चाक्षुषोत्पत्तिनाशकल्पनात् । किंच सामीप्यदूरत्वयोः दुर्वचत्वाद्विजातीयसंयोगादिमत्प्रदेशावच्छिन्नं नभः स्वनिष्ठविषयतासम्बन्धेन नैल्यविशेषचाक्षुषत्वावच्छिन्नं प्रति हेतु- र्वाच्यः । तथाच तदपेक्षया लाघवाद्विजातीयसंयोगत्वेन नैल्यविशेष- हेतुत्वमेवास्तु । एतेन नमोनैल्यस्य व्यावहारिकस्य दैशिकाव्याप्य- वृत्तित्वशङ्कापि प्रत्युक्ता । सर्वावच्छेदेन सन्निकर्षात्तत्प्रत्यक्षवारणाय उक्तहेतुत्वावश्यकत्वेन लाघवात् उक्तहेतुत्वेन तत्प्रातीतिकत्वसिद्धेः । अतएव किन्त्वागमादिना बाधानन्तरमिति ग्रन्थे उक्तयुक्तिराचार्या- णामभिप्रेतेति ध्येयम् । यत्तु 'रूपवदवयवारब्धत्वादाकाशे रूप- -