पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वानुमितेः शैल्यानुमितिसाम्यभन्न प्रयोजनस्य विद्यमानत्वात् । न च प्रत्यक्षविषयतात्विकत्वा- पत्तिः, तद्विषयाधिकरणस्यैव पारमार्थिकत्वव्यतिरेकस्य बोध- नात् । तथाच न काप्यनुपपत्तिः । तदुक्तं खण्डनकद्भिः - पारमार्थिकमद्वैतं प्रविश्य शरणं श्रुतिः । विरोधादुपजव्येन न बिभेति कदाचन ॥ 343 इति । नन्वेवमध्यनौष्ण्यं तात्त्विक मिति तदनुमितिरपि न बाध्येत व्यावहारिकौष्ण्यग्राहिणा अध्यक्षेण । एवंच 'आदित्यो यूपः ' इत्यादावपि - - तात्त्विकादित्यतां यूपस्याश्रित्य शरणं श्रुतिः । विरोधादुपजीव्येन न बिभेति कदाचन || इत्याद्यपि स्यादिति चेत्रः अनौष्ण्यं तात्विकं स्यादिति कोर्थ: १ यदि तत्त्वत औष्ण्यं नास्तीत्यर्थः, तदा अद्वैते पर्यवसानादिष्टा- तत्र बाघका नवतारे तत्सम्भवात् श्रुत्या प्रसक्तिनक्षेऽपि न विकल्पः । 'विश्वं सत्यम्' इत्यादिवक्ष्यमाणश्रुतेस्स्तुतितात्पर्यानवधारण- विश्वतात्त्विकताप्रसञ्जिकायाः तदवधारणे तात्पर्यविषय- स्तुतिद्वारभूतविश्वव्यावहारिक सत्यता बोधकत्वनिश्चयेन निषेधश्रुत्यपेक्षया न्यूनबलवत्त्व 'निश्चयादिति ध्येयम् । व्यतिरेकस्य बोधनादिति । ननु प्रातिभामिके व्यावहारिकत्वनिषेधे प्रातिभासिकत्वस्य व्यावहारि- कत्ववत् व्यावहारिके प्रपञ्चे तात्त्विकत्वनिषेधे व्यावहारिकत्वं तत्र तात्त्विकं स्यादिति चेन्न; व्यावहारिकत्वस्यापि प्रपञ्चान्तःपातेन तत्रापि तात्त्विकत्वनिषेधात् । न चोपजीव्यप्रसक्तिविरोधात् श्रुतेर्निषेधाप्रमापकत्व- मिति वाच्यम्, उक्तरीत्या प्रसक्तेरनुपजीव्यत्वादुपजीव्यत्वेऽपि लौकिक. त्वेन सम्भावितदोषत्वात् ज्ञानमात्रस्योपजीव्यत्वेन तात्त्विकप्रामाण्य 2 वत्त्वा. 1 बाधा.