पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

344 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः पत्तिः । यदि व्यवहारतोऽपि नास्तीति, तदा व्यवहाराविसंवा- दादिरूपपरीक्षितत्वावशिष्टमौष्ण्यप्रत्यक्षं बाधकमिति नानौष्ण्यस्य ताविकत्वसिद्धिः । एतेन शैत्यानुमानं व्याख्यातम् । एव मादित्ययूपभेदस्य तत्त्वतो व्यवहारतो वा निषेधे योज्यम्; श्रुते- रन्यशेषतया आदित्ययूपाभेदपरत्वाभावेन परीक्षितप्रत्यक्षविरोधेन गौणार्थतया स्तावकत्वोपपत्तेश्च । अतएव 'तात्त्विकादित्यतां यूपस्य' इत्यादिना अद्वैतश्रुतेः 'आदित्यो यूपः' इत्यादिश्रुति- साम्यापादनमपास्तम् । न चानुमितिसिद्धमिथ्यात्वग्राहकत्वे सत्य- द्वैतश्रुतिरनुवादिका स्यत्, यथा 'अग्निर्हिमस्य भेषजम्' इत्यादि- श्रुतिः प्रमाणान्तरगृहीतहिमानवारणशक्तयनुवादिकेति वाच्यम्; स्वस्वचमत्कारानुसारिणोऽनुमानस्य सकलसाधारण्याभावेन तस्य श्रुत्यनुवादकत्वाप्रयोजकत्वात् । तदुक्तं 'तर्काप्रतिष्ठानात्' इत्यत्र वाचस्पतिमिश्रैः- - यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ विशिष्टस्यानुपजीव्यत्वान्निषेधबाध्यत्वसम्भवात् । श्रुतेस्तु निर्दोषेत्वन तदधीनप्रसक्तेर्व्यावहारिकप्रामाण्यस्यावश्यकत्वेन; व्यावहारिकनिषेधबोध- केन 'न तौ पशौ' इत्यादिना नात्यन्तबाघ' इत्युक्तप्रायत्वात् । व्यवहारतोऽपीति । तथाच व्यावहारिकौष्ण्य विरोधित्वं व्यावहारिकत्व- पर्यवसन्नमनौष्ण्यस्य स्यादित्यर्थः । तात्त्विकत्वसिद्धिः व्यावहारि- कौष्ण्यविरोधित्वसिद्धिः । स्वस्वचमत्कारानुसारिण इति । स्वस्व- मात्रेण प्रमात्वेन गृह्यमाणस्येत्यर्थः । तथाच यस्य वादि प्रत्यनुमानादिना अनुमानेष्वप्रामाण्यशङ्का तं प्रति तन्निवृत्त्यर्थमपेक्षणीया श्रुतिः नानु- , 2वादिनः 1 नान्त्यबाध. .