पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

330 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः युगपदपच्छेदे प्रायश्चित्तद्वयं समुच्चीयतें, सर्वस्वदानस्य पुनः प्रयोगे कर्तुं शक्यत्वात् । अथवा दक्षिणोत्कर्षविशिष्टपुनःप्रयोगमात्रमुद्गात्रपच्छेद- निमित्तकं, न त्वदक्षिण्यमपि ; तस्यार्थिकत्वेनानुवाद्यत्वात् । अतः पूर्वप्रयोगे सर्वस्वदानेऽपि न विरोध इति प्राप्ते, अदक्षिण्यस्य' नैमित्ति- कत्वाभावेऽपि पूर्वप्रयोगे सर्वस्वदाने दक्षिणोत्कर्षस्याप्यनुपपत्तेः प्रथम- प्रयोगे न सर्वस्वदानम् | नापि पुनःप्रयोगे, प्रतिहत्रेपच्छेदवति प्रयोग एव तद्विधानात् । अन्यथा एकस्मिन् प्रयोगे प्रतिहर्तुरपच्छेदे कतो- स्तद्वत्त्वाविशेषादुत्तरसर्वप्रयोगेषु पाक्षिकतया तदापत्तेः । निमित्तवति प्रयोग नैमित्तिकस्य दैवादकरणे प्रयोगान्तरेऽपि तदापत्तेः । अतो विरोधाददाक्षिण्य सर्वस्व दानयोर्विकल्पः । पुनःप्रयोगमात्र त्वविरोधाद- दाक्षिण्येन समुच्चीयते । तदपि विकल्प्यत इत्यन्ये । तदुत्तराधि- करणे – 'पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्' इत्यत्र स्थितम् । यदा क्रमेणापच्छेदस्तदा तन्निमित्तकयोः विरोधे पूर्वनिमित्तकमेव कार्य, असञ्जातविरोधित्वात् । अथवा विकल्पः, नैमित्तिकशास्त्रयोः सामान्य- विशेषविषयकत्वादेः अभावेन समबलत्वात् अनुष्ठानवेलायां पौर्वा - पर्यस्य शास्त्रार्थानिर्णायकत्वादिति प्राप्ते, नैमित्तिकेन सर्वस्वदानेन नित्यस्य द्वादशशतादेवि परापच्छेदनिमित्तकेन पूर्वापच्छेदनिमित्तकस्य बाघः । नित्यनैमित्तिकशास्त्रयोः पूर्वपरकालप्रवृत्तत्वं पूर्वप्रवृत्तस्य पश्चात्प्रवृत्तिरहितप्रयोगविषयकत्वकल्पना सम्भवश्चेति हि द्वयं पूर्व- परापच्छेदनिमित्तकप्रायश्चित्तशास्त्रयोरप्यविशिष्टम् । तथाच शास्त्रार्थाव- धारणवेलायामेव पश्चात्तनानुष्ठान कालनियोः पूर्वापरनिमित्तकप्रायश्चित्त कर्तव्यताबुद्धयोः' पौर्वापर्यमालोच्य व्यवस्थितविषयकत्व कल्पना युक्तैव । न च सञ्जात विरोधित्वेन परविज्ञानस्यानुपपत्तिरिति वाच्यम्; इथं -- , 4 ददाक्षिण्य. 1 त्वदाक्षिण्य. 2 अदाक्षिण्यस्य. 5 ददाक्षिण्येन. 6 त्वस्य कल्पना. "बुद्धे, , 3 3 निमित्त प्रतियोगे. 8 असञ्जात. •