पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अपच्छेदन्यायवषम्यभङ्गः अपच्छेदन्यायवैषम्यभङ्गः 329 किञ्चापच्छेदन्यायेनाप्यागमस्य प्राबल्यम् | यथा हि 'पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्' इत्यधिकरणे उद्गात्रपच्छेद- दातुरिन्द्रियादीनि निर्बभस्ति भर्त्सयतीत्यर्थः । किञ्च वेदोपक्रमाधि- करणादावर्ऋग्वेद इत्याद्यर्थवादस्थग्वेदादिरूपोपक्रमाद्यनुरोधेन 'उच्चै- ॠचा क्रियते' इत्यादिविधिस्थर्गादिपदेषु ऋग्वेदाद्यर्थलक्षणा सर्वसम्मतै- वेत्यर्थवादानुरोधन विधौ न लक्षणेति प्रलाप एव || तर्कैस्सारस्वतै रत्नैश्चन्द्रिका चन्द्रभूषणैः । अक्षस्यागमबाध्यत्वं द्योतितं ध्वान्तनाशकम् ||. इति प्रत्यक्षम्यागमबाध्यत्वम्. किचापच्छेदेति । “ अध्वर्यु विनिष्कामन्तं प्रस्तोता सन्तनु- यात्तं प्रतिहर्ता, तमुद्गाता, तं ब्रह्मा, तं यजमान: " इति अध्वर्थ्यादि- कच्छं धृत्वा प्रस्तोत्रादीनां बहिष्पवमानस्तोत्रार्थ ज्योतिष्टोंमे गमन- मुक्तम् । तत्र विच्छेदे प्रायश्चित्तं - यदि प्रस्तोता अपच्छिन्द्यात् ब्रह्मणे वरं दद्यात्, यदि प्रतिहर्ता सर्ववेदसं दद्यात्, यद्युद्गाता अदक्षिणं यज्ञमिष्ट्वा तेन पुनर्यजेत तत्र तद्दद्यात् यत्पूर्वस्मिन् दास्यन् स्यात् । तत्रोभाभ्यां क्रियमाणे विच्छेदे प्रायश्चित्तमस्ति न वेति संशये, उभाभ्यां क्रियमाणस्य एकैककर्तृकत्वेन निर्देशासम्भवात् निमित्ताभावात् तत्र तन्नास्तीति प्राप्ते, क्रियानुकूल कृतिरूपकर्तृत्वस्य प्रत्येक पर्याप्तत्वात् उभयकर्तृक विच्छेदेऽपि निमित्तसत्त्वात् तदस्त्येवेति युगपदुभाभ्यां क्रियमाणबिच्छेदेऽपि प्रायश्चित्तमाबश्यकामिति 'विभागश्रुतेः प्रायश्चित्तं यौगपद्येन विद्यते' इत्यधिकरणे षष्ठपञ्चमे स्थितम् । तदुत्तरं च ' विप्रतिषेधाद्विकल्पः स्यात्' इत्याधिकरणे स्थितम् । प्रतिहत्रुद्द्वात्रोः 1 तत्सत्वात्. 1