पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां 1 चार्यैरुक्तत्वात् । अतएव यत्र वाक्यार्थोऽन्यशेषत्वेन तत्रामुख्यत्वमित्यनेनोक्तामुख्यार्थकत्वे स्वतात्पर्यविषयप्रतीत्युपपादक- वाक्यार्थप्रतिपादकत्वरूपमन्यशेषार्थकवाक्यत्वं हेतुतयोक्तमाचार्यैरपीति अन्यशेषवाक्यार्थेत्यायुक्तम् । न ह्यंगवाक्यमुख्यार्थत्वे व्यवहारः सम्प्रतिपन्नः | तण्डुलान् पचतीत्यादिकं तु अनन्यशेषत्वात् मुख्यार्थ- मेव । न हि वाक्यार्थस्यान्योपकारकत्वमन्यशेषत्वं; येन तण्डुलपाक- कृतेः भोजनायुपकारत्वेन अन्यशेषता स्यात् । किन्तु स्वप्रतिपाद- कतात्पर्यविषयप्रतीत्युपपादकधाविषय त्वम् । तथाच किं पचतीति प्रश्नो- तरोक्तवाक्यस्य स्वार्थ एव तात्पर्यात् नान्यशेषत्वम् । यदिचोक्तरूपान्य- शेषत्वं तत्रास्ति, तदा तत्रामुख्यार्थत्वमिष्टमेव । समिदादिवाक्यानां मुख्यार्थत्वप्रकारोऽपि दर्शित एव । न हि तत्रार्थवादेत्यादिकं तु शोभते । अर्थवादानुसारेण विधौ यत्र लक्षणाप्रसक्तिः तत्रैव हि त्वया निषिध्यते । सा चार्थवादस्थोपक्रमाद्यनुरोधेनैवेति तत्र तन्निषेधोसङ्गत एव । तदभावे तन्निषेधस्तु उन्मत्तमलापः । मन्मते च मुख्यतात्पर्यविषयस्य वाक्या- र्थस्यातादृशत्वेन आन्तिमत्पुरुषं प्रति तादृशहेतुना अन्यशेषत्वप्रति- षेधकं न विधावित्यादिवाक्यं युज्यते । न च ' वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति' इत्युक्तवाक्यान्तर्गतार्थवादस्य ३ प्रतिगृह्णातीत्युप- संहार एव लक्षणा, नतु विधाविति वाच्यम्; विधौ लक्षणां बिना दातुरिष्ट्यसिद्धेः । मैत्रायणीयवाक्यगतिस्तूक्तैव | वचनाद्दातुरिष्टौ त्वधि- करणमेव व्यर्थं स्यात् । तत्रसारोक्तवाक्यं तु न युक्तम् । तथाहि मैत्रा- यणीयोक्तवाक्ये 'यो वा अश्वं प्रतिगृह्णाति वरुणं स प्रदीति तदश्वहविषा यष्टव्यं निर्वरुणत्वाय' इत्यनेनाश्वग्रहीतुरश्वदं प्रति वरुणरूपजलोदरदातृ- त्वोक्तेः अश्वदातुरेव सवरुणत्व प्रतीतोर्नर्वरुणत्वाय तस्यैव यष्टृत्वं प्रतीयते । एवञ्च पूर्ववाक्ये प्रतिगृथत इति षष्ठ्यनादरे ग्रहीतारमनादृत्य सोऽश्वोऽस्य 2 पादकशब्दविषय. 6 3 1 त्याद्ययुक्तम्. 3 वादस्थ. 328 [ प्रथमः कल्प्यते,