पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाध्यत्वविचारः 9 - , विचारलक्षणापि न स्यात् । न च तात्पर्यानुरोधात् तत्त्वमादिपदेषु लक्षणा मानान्तरविरुद्धे तात्पर्यस्यैवाभावात् । किञ्च अन्यशेषत्वस्य अमुख्यत्वरूपत्वे प्रस्तरादिवाक्यमन्यशेषत्वात् अमुख्यमिति हेतुहेतुमत्त्व- योरसङ्गतिः ; अन्यशेषवाक्यार्थबोधके समिधो यजतीत्या दिवेदे तण्डुलान् पचतीत्यादिलौकिकवाक्ये च मुख्यार्थत्वव्यवहारो न स्यात् । अश्व- प्रतिग्रहेत्याययुक्तम् ; न हि तत्रार्थवादानुसारेण विधौ लक्षणा, किन्तु उपक्रमप्राबल्यात् । किञ्च तन्त्रसारे मैत्रायणीयशाखायां दात्रुपक्रम- तोऽग्निमत्कर्माङ्गत्ववशादेव दातुरिष्टिः प्रतीयत इत्युक्तत्वेन वचनात् अग्निमत्कर्मदानाङ्गत्वात् दातुरिष्टिर्नार्थवादप्राबल्यात्" इति प्रलपितम् ; तत् परवाक्यार्था'नवबोधादेव । तथाहि - अद्वैत श्रुतिप्रत्यक्षयोः प्रामाण्ये मिथ्यात्वेन यदि समे, तदेष्टापत्तिरुक्तैवाचार्यैः । अथ विषयतात्त्विक - त्वेन, तदापि तन्निराकृतमेव । षड्डिघलिङ्गैरित्यादि युक्तमेव, न्यायाधी- नस्य प्रबलश्रुतितात्पर्यनिर्णयस्य दुर्बलमानान्तराविरोधनिरपेक्षत्वात् । श्रुतितात्पर्यनिर्णायकोपक्रमादीनामपि प्राबल्यप्रयोजकं निरवकाशत्वा- दिकमुक्तं, वक्ष्यते च । अतएव तात्पर्यविषयार्थेत्यादि युक्तमेव ; निर्णी- ततात्पर्यानुरोधेन तत्त्वमादिपदानामखण्डलक्षणाभ्युपगमात् सर्वज्ञत्वकि- ञ्चिज्ज्ञत्वा दीविशेषणयोः सोमयागाद्योरभेदे च निर्णीतश्रुतितात्पर्याभावेन तदंशे प्रत्यक्षाद्यविरोधस्य अपेक्षणीयत्वात् तात्पर्यविषये हि श्रुतिः प्रबलेत्याद्युक्तम् | दर्शनरूपफलसाघनत्वायनुरोधेन 'द्रष्टव्यः श्रोतव्य' इत्यादेर्विचारविधायकत्वनिर्णयात् तदेकवाक्यतया 'तद्विजिज्ञासस्व ' इत्यादेः तन्मूलक – 'अथातो ब्रह्मजिज्ञासा' इति सूत्रस्य च धात्वर्थ- निर्णयात्तदनुरोधाज्जिज्ञासापदे विचारलक्षणा युक्ता । अन्यशेषत्वममु- ख्यत्वमिति' तु परस्य अमः; अन्यार्थतात्पर्यकत्वममुख्यार्थकत्व मि- त्यनेन स्वप्रतिपाद्यवाक्यार्थभिन्नतात्पर्यकत्वस्यैव अमुख्यार्थकत्वरूपत्वेना- 3 कत्वं मुख्यार्थ. 1 तच्छाखावाक्यार्था. 2 शेषत्वं मुख्यत्व. 327