पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रथमः तात्पर्यवृत्तिवाक्ये प्रतीयमानवाक्यातिरिक्तोऽन्यः शेषी नास्तीत्ये- वंपरमेव तद्वचनम् । अतस्सिद्धमद्वैतागमस्य लाक्षणिकत्वेऽपि मुख्यार्थत्वात् प्रत्यक्षबाधकत्वमिति शिवम् ।। इति प्रत्याक्षस्यागमबाध्यत्वम्. 326 अद्वैतसिद्धिव्याख्याया॑ां गुरुचन्द्रिकायां तात्पर्यविषयसिद्ध्य ननुकूललक्ष्यो नार्थ इत्युक्तम् । विधायकवाक्ये अन्यशेषो नार्थ इत्युक्ते तु उपासनापरत्वखण्डनं न स्यात् । अतस्तथा नोक्तम् । लक्ष्यमात्रनिषेधे तु स्वसिद्धान्तविरोध एव; महावाक्ये भागत्यागलक्षणास्वीकारात् प्रतिगृह्णीयादित्यादौ दाने, 'उच्चै ऋचा क्रियते' इत्यादौ ऋगादिपदे ऋग्वेदादौ लक्षणायाः सर्वसम्मतत्वाच्च । मुख्यार्थत्वात् । मुख्यतात्पर्यविषयबोधकत्वात् । बाधकत्वमिति । मुख्यतात्पर्यविषये श्रुतेः प्राबल्यस्य सर्वसम्मतत्वात् वाचस्पतिमत इव मतान्तरेऽपि बाघकत्वमित्यर्थः । यत्तु – “ वाक्यशेषप्रमाणान्तर- संवादेत्याद्ययुक्तम् ; परीक्ष (क्षा ) या 1 अद्वैत श्रुतिसमानप्रामाण्यस्य प्रत्य- क्षादिषु सिद्धत्वेन विरोधात् । षड्विधलिङ्गैः गतिसामान्येन चेत्याधयुक्तं; अन्योन्याश्रयात् । सिद्धेऽखण्डतात्पर्ये तनिर्वाहाय अखण्डलक्षणया मानान्तरा विरोधः । मानान्तरविरोधे च सति अखण्डतात्पर्य सिद्धिः । लौकिकवाक्यस्य मानान्तरविरुद्धतात्पर्य - कत्वेऽपि वेदवाक्यस्य न्यायगम्यतात्पर्यस्य मानान्तराविरुद्ध एव कल्पनात्तात्पर्यविषयार्थबोषकत्वं मुख्यार्थत्वमित्याद्ययुक्तम्, प्रत्यक्षस्या- गमवाक्यबाधकत्वाभावे तत्त्वमस्यादौ भागत्यागलक्षणा, सोमेनेत्यादौ मत्वर्थलक्षणा च न स्यात् । न हि तत्त्वंपदवाच्ययोः सोम- यागाद्योश्चाभेदबोधने प्रत्यक्षविरोधात् अन्यदोषः । एवं सन्देऽ 4 1पररीत्या 2 लक्षणाया मानान्तर 3 अखण्डार्थत्व 4 अन्यशेष: वमन्यदेव