पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अपच्छेदन्यायवैषम्यभंङ्गः 331 - रजतमिति ज्ञानं बाधित्वा नेदं रजतमिति ज्ञानस्योत्पत्तेः यत्र पूर्वोत्तर. ज्ञानयोः मिथोपेक्षणीयता, तत्रैव पूर्वस्य परेण बाधनासम्भवात् पूर्वा - विरुद्धविषयकतया अपरस्योत्पत्तेः पूर्वस्य परोपमर्द' कत्वात् ; यत्र तु. न सा, तत्र पूर्व बाधित्वाऽपि परोत्पत्तिसम्भवात्, बाधितस्य सञ्जा- तस्याविरोधि'त्वात् परोत्पत्तेर्निर्विघ्नत्वात् । अतएव उत्पन्ने परज्ञानेऽपि न पूर्वज्ञानं भ्रमत्वज्ञापकं, 4 बाधितत्वात् । न च पूर्वस्य प्रथमतः कल्पितमपि भ्रमत्वं पश्चात्परबाधकल्पनया त्यज्यत इति वाच्यम्; परस्य बाधकान्तराभावात् प्रथमकल्पितत्यागे बीजाभावात् । न च पूर्वमेव पैरं बाधित्वा जायत इति वाच्यम्; पूर्वज्ञानोत्पत्ते: पूर्व पर स्यैवाभावात् तद्वाषं विनापि पूर्वोत्पत्तिसम्भवेन अन्यथानुपषत्त्यभावात् । यत्तु – " पूर्वज्ञाने विस्मृते तेन परस्य अमत्वकल्पनार्थ पूर्वज्ञानस्मरणं कल्प्यमिति परभ्रमत्वकल्पने गौरवम् ; पूर्वभ्रमत्वकल्पनापक्षे तु पूर्व- स्मिन् विस्मृतेऽपि न क्षतिः उत्तरज्ञानविषयस्यैव अनुष्ठानसम्भवात् " इति, तन्न; परज्ञाने विस्मृतेऽपि च तेन पूर्वभ्रमत्वकल्पनाय तद्विषयानु- ष्ठानाय च परज्ञानस्मृतिकल्पनागौरवं तुल्यम् । तदुत्तरं च ' यद्युद्गाता जघन्यः स्यात् पुनर्यज्ञे सर्ववेदसं दद्याद्यथेतरस्मिन्' इत्यधिकरणे स्थितम् । यदा प्रतिहर्त्रपच्छेदोत्तरमुद्रात्रपच्छेदः, तदा पुनःप्रयोगे सर्वस्वदानं द्वादशशतं वेति संशये 'यत्पूर्वस्मिन् दास्यन्' इत्यनेन ऋतुस्वभावतो यद्देयं तदुच्यत इति द्वादशशतमेव देयम् । यदा स्वाभाविकं द्वादशशतं प्रतिहर्त्रपच्छेदनिमित्तकं च सर्वस्वं दास्यन्नासीदित्युभयस्यैव प्राप्तत्वाद्विकल्प इति प्राप्ते -- द्वादशशतं न दास्यन्नासीत्तस्य सर्वस्वेन बाधितत्वात् । यद्यपि सर्वस्वमप्यदाक्षिण्येन दक्षिणोत्कर्षण वा बाधितं पूर्वप्रयोगे, तथापि परनिमित्तात् पूर्व यद्देयत्वेन प्रसक्तं तत्सर्वस्वमेवेति तदेव परनिमित्तो- 3 संजाताविरोधि 4 व्यापकं. 5 द्वादशशतं 1 पूर्व 2 परानुपमर्द. दास्यभासीदित्यस्य. ,