पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] पक्षतावच्छेदक विचार: 15 भावनिश्चयवति हेतुसन्देह एव सन्दिग्धानैकान्तिकता " इति । पक्षत्वं तु साध्यसन्देहवत्त्वं साध्यगोचरसाधकमानाभाववत्वं वा । किन्तु विषयभेदादित्युक्तमित्यपास्तम् । रजतादितादात्म्योत्पत्त्यापि विषयभेदसम्भवात् । अथात्र रजते पटपवनसंयोग इत्यादिप्रतीत्या प्रातीतिकरजताद्यवच्छिन्नस्य संयोगादेः स्वीकारात्तस्य चान्यावच्छिन्नत्व- वारणाय अवच्छेदकतासम्बन्धेन तदवच्छिन्नं प्रति तद्रजतादेः हेतु- त्वात् स्वोत्पत्तिक्षणोत्पन्ने शुक्तयादिप्रतियोगिकतादात्म्ये अवच्छे- दकत्वासम्भवात् शुक्तघाद्यवच्छेदेनैव रजतादितादात्म्यादेरुत्पत्तिरिति विनिगमकं, तर्हि रजतादिविशेष्यताया एवास्त्ववच्छेदकत्वं न तु रजतादेः, यत्सम्बद्धो यत्रावच्छेदकः तत्तत्रावच्छेदकमिति नियमे मानाभावात् । तथाचोक्तो विनिगमकाभावः स्थिरः । रजतादि- तादात्म्यस्योत्पत्तौ तस्येदं विशेष्यतावच्छिन्नस्य भानेन, इदं रजत- मित्याकारस्य पूर्वसिद्धया रजतादिविशेष्यतया अवच्छिन्नस्य पूर्व- सिद्धस्येदंतादात्म्यविषयत्वस्य भानात्, रजतमिदमित्याकारस्य सम्भ- वेन भिन्नविषयघटिताकारयोर्निर्वाहात् तदनुरोधेन रजतादेः इद- मादेर्वा तादात्म्यमुत्पद्यत इत्यत्र विनिगमकाभावादिति चेन्न । रज- तादिप्रतियोगिकतादात्म्यादेरुत्पत्त्यङ्गीकारे तादात्म्येन घटादिभ्रम- घटादिप्रतियोगिकतादात्म्यस्य काष्ठादावुत्पत्त्या तादात्म्येन

काष्ठादावुत्पत्त्यावश्यकत्वात् । तेन सम्बन्धेन तदुत्पत्तिका-

रणतायां कपालतत्संयोगादिनिष्ठायां व्यभिचारात् । कपालादिवि- शिष्टघटत्वादिना व्यावहारिकतादात्म्यसम्बन्धेन वा कपालादिकार्यत्वे च गौरवात् । नचेदं रजतमित्याद्याकारे रजतादिप्रतियोगिकतादा- त्म्यस्य भानादुक्तव्याभिचारतादवस्थ्यमिति वाच्यम् । द्रव्यत्वाद्यव- च्छिन्नशुक्त्यादिप्रतियोगिकतादात्म्यमानस्यैव तत्रोक्तत्वेन रजतादिप्र- स्थले घटादेः