पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14 अद्वैत सिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथम : भिन्न एव तस्य दूषणत्वं वाच्यम् । अत एवोक्तं "साध्या- त्पत्त्या इदं रजतमित्याद्या कारस्येव रजतादिविशेष्यतावच्छेदेन इदंतादा- त्म्यादेः सांसर्गिकविषयत्वसम्बन्धेनोत्पत्त्या रजतमिदमित्याद्याकारस्यापि निर्वाहः । एवं च रजतभ्रमस्थले रजतं तत्प्रकारतावच्छिन्नसंसर्गता इदं तादात्म्यं च उत्पद्यन्ते इति भावः । न च रजतत्वाद्यवच्छिन्न- प्रकारताया व्यावहारिकरजता वच्छिन्नचित्तादात्म्यरूपायाः इदंतादात्म्य- चित्सम्बन्धविच्छेदेन भ्रमपूर्वमसिद्धत्वेन तस्या अप्युत्पत्तिर्वाच्या, तथा च गौरवं, तद्वाघापत्तिश्च, न च सेष्टा । न हि ज्ञानेन रजतादिप्रकारता बाध्यते, किन्तु विशेष्ये विशेषणं तत्सम्बन्धो वेति वाच्यम्, घटत्वाद्य- वच्छिन्नप्रकारतायाः पूर्वमसिद्धत्वेपि कपालादितादात्म्यविषयत्वावाच्छन्न पूर्वसिद्धप्रकारतायाः घटाद्युत्पत्तिकाले घटत्वाद्यवच्छिन्नत्वस्यैव उक्त- विषयतावच्छिन्नपूर्वसिद्धप्रकारताया: रजताद्युत्पत्तिकाले रजतत्वाद्य- वच्छिन्नत्वस्य सम्पत्तेः । एवंच पूर्वसिद्धप्रकारतैव रजतसंसृष्टा उक्ता- कारनिर्वाहिकेति भावः । रजतादिचित्सम्बन्धस्य रजतत्वादिचित्सम्ब- न्धरूपप्रकारतावच्छिन्नत्वात् यद्यपि विषयादिनिष्ठदोषस्य स्वाश्रये शुक्तयादौ अवच्छेदकतासम्बन्धेन रजतादिकं प्रति हेतुत्वम् । तथापि उक्तविषयत्वावच्छिन्नप्रकारता बाधाभावादिप्रयोज्या। नन्वेवं प्रकारता- वच्छिन्नोक्तविषयत्वस्यापि पूर्वसिद्धस्यैव बाधाभावनियम्यत्वसम्भवा- दुक्ताकारद्वयनिर्वाहाय उक्ततादात्म्यादेरुत्पत्तिः व्यर्था । यद्येनावाच्छद्यते तेन तन्नावच्छिद्यत इति नियमे तु मानस्याभावः । भावे वा रजतादि- प्रतियोगिकतादात्म्याद्युत्पत्त्याऽपि तत्सिद्ध्या शुक्तयादिप्रतियोगिकतादा- त्म्याद्युत्पत्तिरविनिगम्या । एतेनाकारयोः भेदार्थमिदमादितादात्म्योत्पत्ति रावश्यकी । न हि विषयतयोः मिथोवच्छिन्नत्वेन आरोपो भिद्यते, · मानाभाव:. -