पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:]] पक्षतावच्छेदकाबेचार: 13 स्वात् घटादेः । तथाहि पक्षे साध्यसन्देहस्यानुगुणत्वात् पक्ष- भवात् अभावेन भिन्नकालावच्छिन्नयोरवच्छेद्यावच्छेदकभावासम्भवात् । अतः पूर्वसिद्धेदमादिचित्सम्बन्धविच्छेदेनैव तां सम्बध्नाति । अतो रजतं न जानामत्यिादेर्नापत्तिः । ननु भ्रमस्थले रजताद्य वच्छिन्नतादा- त्म्येन' कथं रजतमिदमित्याकारः । न हि प्रमास्थलीयतदाकारतः स विलक्षण इति चेन्न । प्रमास्थलेऽपि तादृशतादात्म्येनैव तदाकार- स्वीकारादावश्यकेन रजतादिसम्बन्धावच्छिन्नेन इदमादितादात्म्येन चिनिष्ठेनैव रजतमिदमित्याद्याकारोपपत्तौ रजतादिनिष्ठस्येदमादितादा- म्यस्य कल्पने गौरवात् । तदवच्छिन्नस्यैव तत्र सम्बन्धत्वसम्भ- वात् । तथाच विशेष्यविशेषणयोः परस्परावच्छिन्नं चिनिष्ठं परस्पर- तादात्म्यं अवश्यमभ्युपेयम् यत्तदेव भ्रमप्रमास्थानीय ढ्याकारताघटकं, तस्मान्न उक्तसिद्धान्तव्याघातः । न वा तुच्छे सत्तादात्म्यम् । न च विशेषणचित्सम्बन्धरूपायाः प्रकारतायाः संसर्गात् भेदेनानु- भवात्तार्किकादिभिः तथा स्वीकाराच तदभेदानुपपत्तिरिति वाच्यम् । सिद्धान्ते हि प्राभाकरादीनामिव इदं रजतं जानामत्यादिरेव विशिष्टबुद्धेराकारः, साक्षिण एव तत्तद्वृत्त्यवच्छिन्नस्य भ्रमप्रमात्वात् तत्र विशेष्यता वच्छिन्नत्वेनैव प्रकारता अनुभूयते न तु संसर्गभिन्नत्वेनापि । प्रत्युत तादात्म्येन इदं रजतं जानामत्यिादौ तादात्म्याभिन्नत्वेनैव प्रकारता अनुभूयते । अत्र संयोगेन घटं जानामत्यादावपि भूतलादिसंयोगस्य प्रकारतैव घटादौ सम्बन्धः । यदि च तत्र तादात्म्यादिनिष्ठसांसर्गिक- विषयताभिन्नत्वेनैव प्रकारत्वानुभव इत्याग्रह; तदास्ताम् । तथा द्रव्यत्वाद्यवच्छिन्नस्य यदिदमादितादात्म्यादिकं तदीयं यद्भ्रमपूर्वसिद्ध- सांसर्गिकविषयत्वं तदवच्छेदेन प्रकारतारूपतादात्म्यसम्बन्धेन रजतादेरु- 1 आदिना तादात्म्य परिग्रहः 2 भ्रमका लोत्पने दंतादात्म्येन 3 सामान्यीय