पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12 अद्वैतसिद्धि व्याख्यायां गुरुचन्द्रिकायां [प्रथम: प्रत्येकं पक्षस्वेऽपि न घटादौ सन्दिग्नानैकान्तिकता, पक्षसम- भ्रमकारणत्वेन पराभिमतयोरिवै कैक 'विशेष्यकजन्यज्ञानस्याप्यनङ्गीका- रात् उभयविषयकैकज्ञानोत्पत्तिपक्षेऽपि तत्र संसर्गविषयकत्वानङ्गी कारेण एकस्याप्यविशेष्यत्वात् पक्षान्तर इव तत्पक्षेऽपि संसर्गस्य साक्षि- भास्यत्वौचित्यात् । संसर्गतदुपहितेदमादिरजतादिष्वविद्यावृत्तिविषयता- नामाकाराख्यानां वक्ष्यमाणररीत्या स्वीकारेऽपि मिथोवच्छेद्यावच्छेदकभावे मानाभावात् भ्रमत्वेनैव पल्लवाविद्याकार्यत्वस्य वक्ष्यमाणत्वेनैकविषयता- वच्छिन्नान्यविषयताकभ्रमत्वेन अकार्यत्वात् इदं रजतादितादात्म्याका- रघीत्वादिनैव संस्कारादिकारणत्वादहं सुखीत्यादौ वृत्त्यनङ्गीकारेण चिद्गतेनैव विशेष्यतावच्छिन्न प्रकारत्वेन तदनुभवस्य निर्वाह्यत्वेन सर्वत्र तथैव सम्भवात् । वृत्तौ तत्स्वीकारे मानाभावात् । नित्यज्ञानं च यद्यप्युभयविशेष्यकं, अवच्छेदकोभूतो हि चिञ्चेत्यसम्बन्धी विशेष्यता, अत एव सौषुप्तानुभवो निर्विशेष्यकत्वात् निर्विकल्पकः, अज्ञोऽ- हमित्यादिस्तु सविशेष्यकत्वात् तदन्यः, तथापि पूर्वसिद्ध इदमादि- चित्सम्बन्धो रजतादिचित्सम्बन्धेऽवच्छेदकतया अवच्छेद्यतया च न भातुमर्हति, मूलावच्छेदेन संयोगी, संयोगावच्छेदेन मूलीत्यननु - भवात् । तद्विलक्षणावच्छेदकत्वे प्रकृते मानाभावात् । अत एव परेषां विशेष्यताप्रकारतयोः मिथोऽवच्छेद्यावच्छेदकत्वं स्वकपोल- कल्पितम् । न चाविनिगम्यत्वात् तथा मूले संयोगीत्यादाविव अनु- भवस्यैव विनिगमकत्वात् । अतो द्वितीय इदमादिचित्सम्बन्धो जाय मानो अवच्छेद्यतयैव भासत इत्यावश्यकम् ।तदुपादानाज्ञानं तु अमकाले रजतादिचित्सम्बन्धविच्छेदेन न चितं सम्बध्नाति रजतं न जानामीत्यननुभवात् । नापि पूर्व भ्रमकाले अज्ञानसम्बन्धस्याननु- पूर्व भ्रम ". 1 4 रिवो फेंक, 2 3 त्यायननुभवात्