पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेद:] पक्षतावच्छेदकावेचार: मिथ्या न वा पृथिवी मिथ्या न वेति । एवं वियदादेः वैयर्थ्यात् । न च रजताद्यवाच्छन्नस्येदमादितादात्म्यस्य उपादानं रजताद्यवच्छिन्नसत्तादात्म्यकमज्ञानमवश्यं वाच्यम् । तथाचाज्ञान- निष्ठेनैव तादात्म्येन याकारत्वादुक्तधियोऽपि तदेव विषयो निर्णीयते । इतिशब्दस्तु रजतादिप्रत्येकावाच्छन्नत्वलाभायेति वाच्यम् । इदमादि- निष्ठसत्तादात्म्यं प्रतीत्य तदन्यथानुपपत्त्या कल्प्येनाज्ञाननिष्ठतादा- त्म्येनेदमादिनिष्ठस्य तस्यापलीपे उपजीव्यविरोधात् उक्तषियोऽपि सन्दिग्धार्थत्वात् । न च द्वयोद्वर्येशेन विशेष्यत्वादेव याकारता न तु विषयभेदो भूतलं घटवत् घटो भूतलीय इतिवदिति वाच्यम् । विषयाभेदेऽपि विषयाभेदेऽपि ज्ञानवैलक्षण्ये पृथग्विषयलोपापत्त्या साकारवादापत्तेः । भूतलावच्छिन्नघटसम्बन्धस्य घटावच्छिन्नभूतलस- म्बन्धस्य च विषयस्यैव दृष्टान्ते भेदाद्विशेष्यावच्छिन्नविशेषणस- म्बन्धस्य प्रमायामपि वक्ष्यमाणरीत्या भानात्, विशिष्टस्यतिरेकाच्च घटभूतलसंयोगा इति समूहालम्बने तस्याविषयत्वात्, सिद्धान्ते तथैवाङ्गकारात् । अपिच अनुव्यवसायमात्रस्य मिथो अवच्छेद्या- वच्छेदकभावापन्नविशेष्यताप्रकारतोभयग्राहकत्वं तार्किकादिभिरुच्यते, तथाच विशेष्यतावच्छिन्न प्रकारत्वं प्रकारतावच्छिन्नविशेष्यत्वं चेत्या- कारद्वयं सविशेष्यकज्ञानमात्रे भ्रमत्वेनास्मदभिमते निर्विवादमेव । इयांस्तु विशेषः - यत् मन्मते वक्ष्यमाणरीत्या तादृशी ब्याकारता चैतन्य - निष्ठा, चैतन्यग्राह्या च, चैतन्यामेदारोपात् जन्यज्ञाने व्यवह्रियते। तन्मते तु जन्यज्ञाननिष्ठानुव्यवसायग्राह्येति । तथाचोक्ताकारद्वयं भिन्नविषयघटि• तमित्यपि प्रामाणिकम् । तथाहि भ्रमस्थले परषामिव नास्माकमुभयवि- शेष्यकं जन्यज्ञानं धर्मिधर्मयोरेकैकमात्रविषयकयोः ज्ञानद्वयांगीकारेणापि 1 दूधंशे, 1 11 - -