पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथम: बाघवारणायादरणीयमेव । प्रत्येकं वा विप्रतिपत्तिः - विय- - 10 न्धोऽनुभवानुरोधात् । स्वस्य स्वप्रतियोगिक सम्बन्धत्वमनुपपन्नत्वादनि- र्वाच्यं परं इत्यस्य त्वयाप्यङ्गीकारात् । अन्यथा सदविद्ययोः कपाल- घटयोश्च स्वरूपं सम्बन्ध इत्युक्त्वा तादात्म्यमात्रं कुतो नापलप्यते । किं चैवमप्येकाकारप्रतीतेः क्वचित्साक्षात् क्वचित्परम्परा सम्बन्धी विषय इत्ययुक्तम् । अन्यथा सत्ताद्रव्यत्वादिजात्या सदाकारतोपपत्तौ सत्तादा- त्म्यवैयर्थ्यात् । इदं रजतमित्यादौ इदमादितादात्म्यबुद्धेः देहादौ प्रेमा- स्पदत्वनित्यत्वचेतनत्वादिबुद्धेरुक्तरत्यिा कथमप्युपपादनासम्भवाच्च । अथे- दमादितादात्म्यं न तत्र भाति किंत्विदमाद्यवच्छिन्नमविद्यानिष्ठं सत्तादा- त्म्यम् | नॅचैवमपि घटस्सन् अज्ञानं सदित्यादिबुद्धिषु साक्षात् परम्परास- म्बन्धभेदेन एकाकारताविरोधः । सत्तादात्म्यवत् तादात्म्यस्य सत्तादात्म्य - तदाश्रयकार्यत्वान्यतरस्य वा सर्वत्र विषयताभ्युपगमात् । एवंच तुच्छे तदभावेन प्रकृतसङ्गतावपि तादात्म्यं घटशुक्तिरजतादौ सदिदमादेर्जायत इत्यौपनिषदोक्तिव्याघात इति चेन्न । अविद्यानिष्ठस्य सत्तादात्म्यस्य रजता- दाविदमादिसम्बन्धतया भानासम्भवात् । न हि रजतमिदमिति धीर्विशेष्य- विशेषणयोः परम्परासम्बन्धमवगाहते, अपितु तादृशप्रमेव साक्षात्सम्बन्धं, अन्यथा तद्विषयकप्रवृत्त्यादिकार्याणां ततोनुपपत्तेः । एवमप्युक्ततादा- त्म्यमात्रेण द्वयाकारत्वानिर्वाहाच्च । अविद्यानिष्ठोक्ततादात्म्यस्य तत्प रिणामे रजतादौ भानेन रजतमिदमित्याद्या कारस्य निर्वाहेऽपि इदं रजतमित्याद्याकारस्य न निर्वाह इति द्वयाकारतानुरोधेन रजताद्यवच्छि- नस्य इदमादितादात्म्यस्य उत्पत्तेः आवश्यकत्वात् । न च तदपि तादात्म्यमविद्यागत मेवेत्यनादीति वाच्यम् इदं न जानामीितवत् रजतं न जानामीत्यनुभवस्य अभावात् । रजतं रङ्गमेवेति न जाना- मीति धीस्तु रजतादिप्रयोजकाज्ञानमवगाहते, अन्यथा इतिशब्दोल्लेख- , -