पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] पक्षतावच्छेदक विचार: 9 , दिरविद्यापरिणामः तत्र सत्तादात्म्यमविद्यागतं भाति, अनाविद्यकमेव वा घटादौ सत्तादात्म्यमविद्यापरिणामे जायते तत् स एव अविद्याया- मपि भातीत्यविनिगम्यत्वात् । 'मायां तु प्रकृति ' मित्यादिश्रुतेः सत्तादा- त्म्यविशिष्टं जन्यमात्रं मायोपादानकमित्यर्थसम्भवात् पञ्चमप्रकार नि- वृत्तेः कार्यत्वेन तदवच्छेदेनाविद्यापरिणामत्व सम्भवात् तादात्म्यत्वरूपा- खण्डधर्मावच्छेदेन तत्सम्भवात् । अज्ञानतत्सम्बन्धादौ जन्यनिष्ठसत्ता- दात्म्येनोपपत्तेः । न चाविद्यानिष्ठस्य सत्तादात्म्यस्य घटादो भाने अन्य थाख्यात्यापत्तिः । एकमेव तादात्म्यम् सर्वत्रानादत्युिक्तिस्तु तुच्छा, घटादिः तत्तादात्म्यं च नष्टमित्यनुभवात् । अन्यथा समवायैकत्वं सिद्धान्ते दुष्टं न स्यात् । अतः अविद्यातादात्म्यमपि घटादावशीकृत्य स्वाश्रयतादात्म्यसंम्बन्धेन सत्तादात्म्यं सन् घट इत्यादौ भातीति मयोच्यते, त्वया तु घटादितादात्म्यमविद्या या मङ्गीकृत्य घटादिस्थं सत्तादा- त्म्यमुक्तसंबन्धेन सत् अज्ञानमित्यादौ भातीति यधुच्यते तदा घटादौ सत्तादात्म्यानामविद्यायां घटादितादात्म्यानां च अनन्तानामङ्गीकारा- गौरवमिति वाच्यम् । सत्तादात्म्यं घटादिस्थं कारणत्वसम्बन्धेन अवि- द्यायां भातीति अविद्यानिष्ठघटादितादात्म्यानां मया अनङ्गीकारात् । तर्ह्यविद्यास्थं सत्तादात्म्यं स्वाश्रय कार्यत्वसम्बन्धेन अविद्याकार्यमात्रे ममापि भातीति नाविद्यातादात्म्यं घटादौ मयाऽप्युच्यत इति चेत् न । उक्ततादात्म्यं विना अविद्याकार्यत्वस्यैव घटादावसम्भवेन तव तदावश्यकत्वात् । तर्हि तवापि सत्तादात्म्यस्य अविद्यायां तादात्म्य- मनंतमावश्यकमिति चेन्न । तादात्म्यस्याविद्यायां तादात्म्यान्तराननुभवेन स्वरूपमात्रं सम्बन्धः तादात्म्यभिन्नस्य तु स्वरूपातिरिक्त एव सम्ब- , - - - 1 ब्रह्मस्वरूपेति तदतिरिक्ता सतीति, असतीति, सदसद्विलक्षणेति, अभ्येति च पञ्चप्रकारा मुक्ति:,