8 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथम: बात्, तत्संसर्गस्य रजतादेश्वाध्यास आवश्यकः । तथाचानुभवस्य इवं रजतामित्यादेर्विनिगन्तुमशक्यत्वादुभयाध्या सत्वसिद्धावप्यननुभूयमा नस्य तुच्छे सत्तादात्म्यस्य सति तुच्छतादात्म्यस्य वाऽध्यासो न प्रामाणिकः ॥ यत्तु नेवं रजतमित्यस्य रजततन्निष्ठेदत्व संसर्गयोः बाधकत्वे गौरवात् रजतबाधकत्वं नेति रजतं नाध्यस्यत इति विनिगमकं भामत्यामुक्तम् । तदौपनिषदं प्रति, नतु रजतसंसर्गमात्राध्यासवादिनं प्रति । तेन रजतादाविदन्त्वसंसर्गाध्यासानभ्युपगमात् अनध्यस्तबाधक- त्वमभ्युपेत्य दूषणे, इदन्त्वादिधर्मस्य परंपरया ज्ञानाकारे साक्षात्तद्धर्मे वा बाघकत्वमभ्युपेत्य तन्मतेऽपि दूषणसम्भवात् । न च 'रजतमिदं इदं रजतं' इत्याधुभयाकारसर्वभ्रमाणामिदंत्वादिसंसर्गाध्यासेनैव उपपत्ताबिदमादिता- दात्म्यं नाध्यस्यतामिति वाच्यम् । भ्रममात्रस्य उभयाकारतायाः धर्म- संसर्गस्य धर्मितादात्म्यस्य वाऽध्यास इत्यस्याविनिगम्यत्वात् । भ्रमकाले इदन्त्वादिमद्भेदस्यापि रजतादावावृतत्वात् । अन्यथा इदंत्वादिसंसर्गा- ध्यासस्याप्यसंभवात् । तस्यानावृतत्वे तु धर्मप्रतिबिम्बाध्यासस्यैवाङ्गी- कारात् तस्यैव विशेषदर्शनाविरोधित्वात् । एतदभिप्रायेणैव भामत्यादौ घर्मितादात्म्याध्यासलौहित्यप्रतिबिम्बाध्यासाभावान्यतरनियमो धर्माध्या- सस्य उक्तः । एवंच घटस्सन्नित्यादौ सदादिसंसर्गस्येव सदादिता- दात्म्यस्यापि घटादावध्यासः । न च भ्रममात्रस्य द्वयाकारतैव नेति वाच्यम् इदं रजतं रजतमिदं, द्रव्यं रूपादिमत् अहं सुखादिमान- नित्यप्रेमास्पदं इत्यादिरूपेण द्वयाकारत्वस्यानुभाविकत्वात् । रजतत्वादि- विशिष्टस्यैव प्रातीतिकस्योत्पत्त्या तत्रेदंत्वद्रव्यत्वरूपादेरात्मनि सुखानि - त्यत्वादेरहंकारे प्रेमास्पदत्वादेः संसर्गाध्यासावश्यकत्वात् । अथ घटस्स- नित्यादौ घटादेरेवाध्यासः नतु तत्र सत्तादात्म्यस्य द्वयाकारता तु अविद्यानिष्ठसत्तादात्म्यस्य अविद्यापरिणामेऽपि सत्त्वादितिचेत् न, घटा- } KONK -
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२८
दिखावट